________________
પ. ર સૂ. ૨૨] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૨૧૩
चोक्तम्-धर्मिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥२२॥
કૃતકૃત્ય એક પુરુષ પ્રત્યે દશ્ય નષ્ટ થયું હોવા છતાં, એનાથી અન્ય પુરુષો પ્રત્યે સાધારણતયા દેખાતું હોવાથી નષ્ટ થતું નથી. કુશળ (મુક્ત) પુરુષ પ્રતિ નષ્ટ થયું હોવા છતાં અકુશળ (બદ્ધ) પુરુષો પ્રતિ કૃતાર્થ ન થયું હોવાથી, એમની દશિ(દર્શનશક્તિ)ની કર્મ વિષયતાને પ્રાપ્ત થઈને, અન્યરૂપથી, પોતાના અસ્તિત્વને જાળવી રાખતું હોવાથી, નષ્ટ નથી થયું એમ કહેવાય છે. તેથી અગાઉ સમજાવ્યા પ્રમાણે, દશક્તિ અને દર્શનશક્તિ નિત્ય હોવાથી એમનો સંયોગ અનાદિ છે. વળી એમ પણ કહ્યું છે કે ધર્મીઓનો સંયોગ અનાદિ હોવાથી ધર્મમાત્રનો સંયોગ પણ અનાદિ છે. ૨૨
तत्त्व वैशारदी नन्वत्यन्तानुपलभ्यं कथं न विनश्यतीत्याशयवान्पृच्छति-कस्मादिति । सूत्रेणोत्तरमाह-कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतोऽर्थो यस्य पुरुषस्य स तथा । तं प्रति नष्टमप्यनष्टं तदृश्यम् । कुतः ? सर्वान् पुरुषान्कुशलानकुशलान्प्रति साधारणत्वात् । व्याचष्टे - कृतार्थमेकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यम्, अन्यपुरुषसाधारणत्वात् । तस्मादृश्यात्परस्यात्मनश्चैतन्यं रूपं तेन, तदिह श्रुतिस्मृतीतिहासपुराणप्रसिद्धमव्यक्तमनवयवमेकमनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत् । यद्यपि कुशलेन तं प्रति कृतकार्य न दृश्यते तथाप्यकुशलेन दृश्यमानं न नास्ति । न हि रूपमन्धेन न दृश्यत इति चक्षुष्मतापि दृश्यमानमभावप्राप्तं भवति । न च प्रधानवदेक एव पुरुषः, तत्रानात्वस्य जन्ममरणसुखदुःखोपभोगमुक्तिसंसारव्यवस्थया सिद्धेः । एकत्वश्रुतीनां च प्रमाणान्तरविरोधात्कथञ्चिद्देशकालविभागाभावेन भक्त्याप्युपपत्तेः । प्रकृत्येकत्वपुरुषनानात्वयोश्च श्रुत्यैव साक्षात्प्रतिपादनात् ।
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ (श्वे० उप० ४।५)
_इति श्रुतिः । अस्या एव श्रुतेश्चानेन सूत्रेणार्थोऽनूदित इति । यतो दृश्यं नष्टमप्यनष्टं पुरुपान्तरं प्रत्यस्ति, अतो दृग्दर्शनशक्तयोनित्यत्वादनादिः संयोगो व्याख्यातः । अत्रैवागमिनामनुमतिमाह-तथा चोक्तमिति । धर्मिणां गुणानामात्मभिरनादिसंयोगाद्धर्ममात्राणां महदादीनामप्यनादिः संयोग इति । एकैकस्य महदादेः संयोगोऽनादिरप्यनित्य एव यद्यपि तथापि सर्वेषां महदादीनां नित्यः, पुरुषान्तराणां साधारणत्वाद्, अत उक्तं धर्ममात्राणामिति । मात्रग्रहणेन व्याप्ति गमयति । अत एतद्भवति-यद्यप्येकस्य महतः