________________
२०८ ]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. २०
बुद्ध्या संसृष्टा: शब्दादयो भवन्ति दृश्या इत्यर्थः । स्यादेतत्-पारमार्थिकमेव बुद्धिचैतन्ययोः कस्मादैक्यं नोपेयते, किमनया तच्छायापत्त्येत्यत आह- स बुद्धेर्न सरूप इति । तदाऽसरूपस्य तच्छायापत्तिरपि दुर्घटेत्यत आह- नात्यन्तं विरूप इति । तत्र सारूप्यं निषेधति- न तावदिति । हेतुं पृच्छति - कस्मादिति । सहेतुकं वैरूप्ये हेतुमाहज्ञातेति । परिणामिनी बुद्धिर्यस्मात्तस्माद्विरूपा । यदा खल्वियं शब्दाद्याकारा भवति तदा ज्ञातोऽस्याः शब्दादिलक्षणो भवति विषयः । तदनाकारत्वे त्वज्ञातः । तथा च कदाचिदेव तदाकारतां दधती परिणामिनीति । प्रयोगश्च भवति - बुद्धिः परिणामिनी ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिदिति ।
तद्वैधर्म्यं पुरुषस्य तद्विपरीताद्धेतोः सिध्यतीत्याह-सदेति । स्यादेतत्- सदा ज्ञातविषयश्चेत्पुरुषो न तर्हि केवली स्यादित्याशयवान्पृच्छति - कस्मादिति । उत्तरम् -न हि बुद्धिश्च नामेति । बुद्ध्यग्रहणयोरस्ति सह संभवो निरोधावस्थायामत उक्तं विरोधसूचनाय पुरुषविषयश्चेति । तेनाद्यश्चकारो बुद्धिं विषयत्वेन समुच्चिनोति । परिशिष्टौ तु विरोधद्योतकौ चकाराविति । प्रयोगस्तु पुरुषोऽपरिणामी सदा संप्रज्ञातव्युत्थानावस्थयोर्ज्ञातविषयत्वात् । यस्तु परिणामी नासौ सदा ज्ञातविषयो भवति यथा श्रोत्रादिरिति व्यतिरेकी हेतुः । अपरमपि वैधर्म्यमाह- किं च परार्थेति । बुद्धिः खलु क्लेशकर्मवासनादिभिविषयेन्द्रियादिभिश्च संहत्य पुरुषार्थमभिनिर्वर्तयन्ती परार्था । प्रयोगश्च परार्था बुद्धिः संहत्यकारित्वाच्छ्यनासनाभ्यङ्गवदिति । पुरुषस्तु न तथेत्याह - स्वार्थः पुरुष इति । सर्वं पुरुषाय कल्पते । पुरुषस्तु न कस्मैचिदित्यर्थः । वैधर्म्यान्तरमाह तथा सर्वात । सर्वानर्थाञ्छान्तघोरमूढांस्तदाकारपरिणता बुद्धिरध्यवस्यति, सत्त्वरजस्तमसां चैते परिणामा इति सिद्धा त्रिगुणा बुद्धिरिति । न चैवं पुरुष इत्याह- गुणानां तूपद्रष्टा पुरुष इति । तत्प्रतिबिम्बितः पश्यति न तु तदाकारपरिणत इत्यर्थः । उपसंहरति- अत इति । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः कस्माद्यतः शुद्धोऽपि प्रत्ययानुपश्यः । यथा चैतत्तथोक्तं "वृत्तिसारूप्यमितरत्र " ( १।४ ) इत्यत्र । तथा चोक्तं पश्चशिखेन-अपरिणामिनी हि भोक्तृशक्तिरात्मा । अत एव बुद्धावप्रतिसंक्रमा च परिणामिनि बुद्धिरूपेऽर्थे संक्रान्तेव तद्वृत्तिं बुद्धिवृत्तिमनुपतति । नन्वसंक्रान्ता कथं संक्रान्तेव कथं वा वृत्तिं विनानुपततीत्यत आह-तस्याश्चेति । प्राप्तश्चैतन्योपग्रह उपरागो येन रूपेण तत्तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता । एतदुक्तं भवति - यथा निर्मले जलेऽसंकान्तोऽपि चन्द्रमा: संक्रान्तप्रतिबिम्बतया संक्रान्त इव, एवमत्राप्यसङ्क्रान्ताऽपि सङ्क्रान्तप्रतिबिम्बा चितिशक्तिः सङ्क्रान्तेव, तेन बुद्ध्यात्मत्वमापन्ना बुद्धिवृत्तिमनुपततीति । तदनेनानुपश्य इति व्याख्यातं तामनुकारेण पश्यतीत्यनुपश्य इति ॥२०॥