________________
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. १८
धर्माधर्मलक्षणमेव निमित्तं प्रयोजकं गुणानाम्, तत्किमुच्यते पुरुषार्थप्रयुक्ता इत्यत आहप्रत्ययमन्तरेणेति । एकतमस्य सत्त्वस्य रजसस्तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिमितरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति"निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् " (४३) इति । एते गुणाः प्रधानशब्दवाच्या भवन्तीति संबन्धः । प्रधीयत आधीयते (विधीयते - पाठा० ) विश्व कार्यमेभिरिति व्युत्पत्त्यैतद् दृश्यमुच्यते ।
१८६ ]
तदेवं गुणानां शीलमभिधाय तस्य कार्यमाह - तदेतदिति । सत्कार्यवादसिद्धौ यद्यदात्मकं तत्तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति- भूतभावेनेत्यादिना । भोगापवर्गार्थमिति सूत्रावयवमवतारयति - तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तते । भोगं विवृणोति - तत्रेति । सुख-दुःखे हि त्रिगुणाया बुद्धेः स्वरूपे । तस्यास्तथात्वेन परिणामात् । तथापि गुणगततयावधारणे न भोग इत्यत आहअविभागापन्नमिति । एतच्चासकृद्विवेचितम् । अपवर्गं विवृणोति - भोक्तुरिति । अपवृज्यतेऽनेनेत्यपवर्गः । प्रयोजनान्तरस्याभावमाह-द्वयोरिति । तथा चोक्तं पञ्चशिखेनअयं खल्वति ।
ननु वस्तुतो भोगापवर्गौ बुद्धिकृतौ बुद्धिवर्तिनौ च । कथं तदाकारणे तदनधिकरणे च पुरुषे व्यपदिश्येते इत्यत आह- तावेताविति । भोक्तृत्वं च पुरुषस्योपपादितम् (१।४ टीका), अग्रे च ( ३।३५) वक्ष्यते । परमार्थवस्तुबुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्ध इति । एतेन भोगापवर्गयोः पुरुषसंबन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः । तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणम् । तत्र स्मृतिर्धारणम् । तद्गतानां विशेषणामूहनमूहः । समारोपितानां च युक्त्यापनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्त्वज्ञानम् । तत्त्वावधारणपूर्वं हानोपादानज्ञानमभिनिवेशः ||१८||
પ્રકાશ, ક્રિયા અને સ્થિતિશીલ, ભૂત અને ઇન્દ્રિયરૂપ દૃશ્ય પુરુષના ભોગ અને અપવર્ગ માટે છે. “પ્રકાશશીલ” વગેરેથી ભાષ્યકાર સૂત્ર સમજાવે છે. સત્ત્વનો ભાગ પ્રકાશ છે. એ તમોગુણના ભાગ દૈન્ય વડે અથવા ૨જોગુણના ભાગ દુ:ખ વડે રંગાય છે. એવું રાજસ, તામસ વિષે પણ સમજવું. તેથી પરસ્પર રંગાયેલા વિભાગવાળા એમ કહ્યું.
પુરુષ સાથે સંયોગ અને વિયોગરૂપ ધર્મવાળા છે. શ્રુતિમાં કહ્યું છે “खेड लाल, सह अने अजा रंगनी अभ (अभ्न्या प्रद्धति) छे से पोताना જેવાં રૂપોવાળી ઘણી પ્રજાઓ સરજે છે. એક અજ (અજન્મા પુરુષ) એનું સેવન કરતો એની સાથે રહે છે. અને બીજો અજ એને ભોગવીને ત્યજે છે.'