________________
પ. ર સૂ. ૧૮] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ૧૫
प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस्तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते । एवं राजसादिष्वपि द्रष्टव्यम् । तदिदमुक्तम्- परस्परोपरक्तप्रविभागा इति । पुरुषेण सह संयोगविभागधर्माणः । यथाम्नायते
"अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो होको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥"
(श्वे. उप. ४।५) इति । इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस्ते तथोक्ता: । स्यादेतत्- सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोरपि सत्त्वाङ्गत्वेन तत्र हेतुभावादस्ति सामर्थ्यमिति यदापि च रजस्तमसोरङ्गित्वं तदापि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्वप्राधान्य इवेत्यत आह- परस्पराङ्गाङ्गित्वेऽप्यसभित्रशक्तिप्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोरङ्गभावः । असंकीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्धं शक्तीनामसंभेद इति । स्यादेतत्असंभेदश्चेच्छक्तीनां न संभूयकारित्वं गुणानाम् । न जातु भिन्नशक्तीनां संभूयकारित्वं दृष्टम् । न हि तन्तुमृत्पिण्डवीरणादीनि घटादीन्संभूय कुर्वन्ति इत्यत आहतुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । यद्यपि तुल्यजातीय उपादान-शक्तिर्नान्यत्र, सहकारिशक्तिस्त्वतुल्यजातीये । घटे तु जनयितव्ये न वीरणानामस्ति सहकारिशक्तिरपीति न तैस्तन्तूनां संभूयकारितेति भावः । तुल्यजातीयातुल्यजातीयेषु शक्येषु ये शक्तिभेदास्ताननुपतितुं शीलं येषां ते तथोक्ताः । प्रधानवेलायामिति । दिव्यशरीरे जनयितव्ये सत्त्वं गुणः प्रधानम् । अङ्गे रजस्तमसी । एवं मनुष्यशरीरे जनयितव्ये रजः प्रधानमने सत्त्वतमसी । एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानमङ्गे सत्त्वरजसी । तेनैते गुणाः प्रधानत्ववेलायामुपदर्शितसंनिधानाः कार्योपजननं प्रत्युद्भूतवृत्त्य इत्यर्थ :। प्रधानशब्दश्च भावप्रधानः । यथा "व्येकयोद्विवचनैकवचने" (अष्टाध्यायी १।४।२२) इत्यत्र द्वित्वैकत्वयोरिति । अन्यथा दयेकेष्विति स्यात् । ननु तदा प्रधानमुद्भूततया शक्यमस्तीति वक्तुम् । अनुद्भूतानां तु तदङ्गानां सद्भावे किं प्रमाणमित्यत आहगुणत्वेऽपि चेति । यद्यपि नोद्भूतास्तथापि गुणानामविवेकित्वात्संभूयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णीतं सदनुमितमस्तित्वं येषां ते तथोक्ताः । ननु सन्तु गुणाः संभूयकारिणः समर्थाः, कस्मात् तत् पुनः कुर्वन्ति । न हि समर्थमित्येव कार्य जनयति । मा भूदस्य कार्योपजननं प्रति विराम इत्यत आह-पुरुषार्थकर्तव्यतयेति । ततो निर्वर्तितनिखिलपुरुषार्थानां गुणानामुपरमः कार्यानारम्भणमित्युक्तं भवति । ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्यत आह-संनिधिमात्रेति । ननु