________________
પા. ૨ સૂ. ૧૭] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૧૮૯
--
बुद्धिसत्त्वस्य पुरुषमुदासीनं प्रति किञ्चिदायतत इति कथं तत्तन्त्रम् । तथा च न तस्य कर्मेत्यत आह- स्वतन्त्रमपि परार्थत्वात्पुरुषार्थत्वात्परतन्त्रं पुरुषतन्त्रम् ।
नन्वयं दृग्दर्शनशक्त्योः संबन्धः स्वाभाविको वा स्यान्नैमित्तिको वा । स्वाभाविकत्वे संबन्धिनोनित्यत्वादशक्योच्छेदः संबन्धः । तथा च संसारनित्यत्वम् । नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानामन्तःकरणवृत्तितया सत्यन्तःकरणे भावादन्तःकरणस्य च तन्निमित्तत्त्वे परस्पराश्रयप्रसङ्गादनादित्वस्य च सर्गादावसंभवादनुत्पाद एव संसारस्य स्यात् । यथोक्तम् -
"पुमानकर्ता येषां तु तेषामपि गुणैः क्रिया । कथमादौ भवेत्तत्र कर्म तावन्न विद्यते । मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा ।
मनोवृत्तिर्हि सर्वेषां न चोत्पन्नं मनस्तदा ॥" इति शङ्कामपनयति-तयोईग्दर्शनक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः । सत्यम् । न स्वाभाविक: संबन्धो, नैमित्तिकस्तु । न चैवमादिमान् । अनादिनिमित्तप्रभवतया तस्याप्यनादित्वात् । क्लेशकर्मतद्वासनासंतानश्चायमनादिः प्रतिसर्गावस्थायां च सहान्त:करणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनस्तादृगेव प्रादुर्भवति, वर्षापाय इवोद्भिज्जभेदो मृद्भावमुपगतोऽपि पुनर्वर्षासु पूर्वरूप इत्यसकृदावेदितं प्राक् (१।१९)। भाविततया संयोगस्याविद्या कारणम्, स्थितिहेतुतया पुरुषार्थः कारणम् । तद्वशेन तस्य स्थितेः । तदिदमुक्तमर्थकृत इति । तथा चोक्तमिति । पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर्दुःखस्य । तस्य विवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । अर्थात्त-दपरिवर्जने दुःखमित्युक्तं भवति । तत्रैवात्यन्तप्रसिद्ध निदर्शनमाह-तद्यथेति । पादत्राणमुपानत् । स्यादेतत्-गुणसंयोगस्तापहेतुरित्युच्यमाने गुणानां तापकत्वमभ्युपेयम् । न च तपिक्रियाया अस्त्यादेरिव कर्तृस्थो भावो येन तप्यमन्यन्नापेक्षेत । न चास्यातप्यतया पुरुषः कर्म । तस्यापरिणामितया कियाजनितफलशालित्वायोगात् । तस्मात्त-पेस्तप्यव्याप्तस्य तन्निवृत्तौ निवृत्तिमवगच्छामो ज्वलनविरहेणेव धूमाभावमित्यत आह- अत्रापि तापकस्येति । गुणानामेव तप्यतापकभावः । तत्र मृदुत्वात्पादतलवत्सत्त्वं तप्यम्। रजस्तु तीव्रतया तापकमिति भावः । पृच्छति-कस्मादिति । सत्त्वमेव तप्यं न तु पुरुषः । उत्तरम्तपिक्रियाया इति । तत्किमिदानी पुरुषो न तप्यते । तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश्छिनमित्यत आह-दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति । दशितविषयत्वमनुतापहेतुः । तच्च प्राग् (१।४ टीका) व्याख्यातम् ॥१७॥