________________
१८८]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. १७
છે માટે. દાખલા તરીકે, પગનું તળિયું ભેદાય એવું છે; કાંટો ભેદે એવો છે; અને કાંટા પર પગ ન મૂકવો અથવા પગરખાં પહેરીને મૂકવો, આ ત્રણ વાતોને જાણનારો માણસ, એ પ્રતિકારનો આરંભ કરે તો ભેદનથી ઉત્પન્ન થતા દુઃખને પ્રાપ્ત કરતો નથી. કેમ ? કારણ કે એ ત્રણ (ભેદ્ય, ભેદક અને પરિહાર)ના જ્ઞાનમાં (અને જ્ઞાનપૂર્વક પરિહારના આરંભમાં) એવું સામર્થ્ય छे. अहीं ताप (हु: आपनार) रभेगुए। वडे सत्त्व तथ्य (दुःख અનુભવનાર) છે. કેમ ? કારણ કે દુઃખ અનુભવવાની ક્રિયા કર્મમાં રહે છે. માટે કર્મરૂપ સત્ત્વમાં તાપ ક્રિયા રહે છે, અપરિણામી નિષ્ક્રિય, ક્ષેત્રજ્ઞ (आत्मा) मां नहीं. पुरुष समक्ष विषयो दृर्शाववामां (निवेदन रवामां ) આવે છે, તેથી સત્ત્વગુણ જ્યારે દુઃખ અનુભવે ત્યારે (પ્રતિબિંબિત બની) એના આકારવાળો બનેલો પુરુષ અનુતાપ અનુભવતો હોય એમ દેખાય छे. १७
तत्त्ववैशारदी
I
यमुक्तम् । तस्य निदानमुच्यते - दष्टृदृश्ययोः संयोगो हेयहेतुः । द्रष्टुः स्वरूपमाह-द्रष्टेति । चितिच्छायापत्तिरेव बुद्धेर्बुद्धिप्रतिसंवेदित्वमुदासीनस्यापि पुंसः । नन्वेतावतापि बुद्धिरेवानेन दृश्येत, न दृश्येरञ्छब्दादयोऽत्यन्तव्यवहिता इत्यत आहदृश्या बुद्धिसत्त्वेति । इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याकारेण परिणतायां दृश्यायां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्यर्थः । ननु तदाकारापत्त्या बुद्धिः शब्दाद्याकारा भवतु । पुंसस्तु बुद्धिसंबन्धेऽभ्युपगम्यमाने परिणामित्वम् । असंबन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानामपि शब्दादीनां दृश्यत्वम् ? न हि दृशिनाऽसंस्पृष्टं दृश्यं दृष्टमित्यत आह- तदेतदृश्यमिति । प्रपञ्चितमिदमस्माभिः प्रथमपाद एव यथा चित्यासंपृक्तमपि बुद्धिसत्त्वमत्यन्तस्वच्छतया चितिबिम्बोद्ग्राहितया समापन्नचैतन्यमिव शब्दाद्यनुभवतीति । अत एव च शब्दाद्याकारपरिणतबुद्धिसत्त्वोपनीतानसुखादीन्भुञ्जान: स्वामी भवति द्रष्टा, तादृशं चास्य बुद्धिसत्त्वं स्वं भवति । तदेतद्बुद्धिसत्त्वं शब्दाद्याकारवद्दृश्यमयस्कान्तमणिकल्पं पुरुषस्य स्वं भवति दृशिरूपस्य स्वामिनः । कस्मात् अनुभवकर्मविषयतामापन्नं यतः । अनुभवो भोग: पुरुषस्य कर्म क्रिया तद्विषयतां भुज्यमानतामापन्नं यस्मादतः स्वं भवति । ननु स्वयंप्रकाशं बुद्धिसत्त्वं कथमनुभवविषय इत्यत आह-अन्यस्वरूपेणेति । यदि हि चैतन्यरूपं वस्तुतो बुद्धिसत्त्वं स्याद्भवेत्स्वयंप्रकाशम् । किं तु स्वं चैतन्यादन्यज्जडरूपं तेन प्रतिलब्धात्मकं तस्मात्तदनुभवविषयः । ननु यस्य हि यत्र किञ्चिदायतते तत्तदधीनम् । न च