________________
१८०]
પતંજલિનાં યોગસૂત્રો
[५.२ सू. १५
संस्कारमाधत्ते । स च सुखस्मरणं तच्च रागं स च मनःकायवचनचेष्टां सा च पुण्यापुण्ये ततो विपाकानुभवस्ततो वासनेत्येवमनादितेति । अत्र च सुखदुःखसंस्कारातिशयात्तत्स्मरणं तस्माच्च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना ।
तदेवं दुःखस्रोतः प्रसृतं योगिनमेव क्लिश्नाति नेतरं पृथग्जनमित्याह - एवमिदमनादीति । इतरं तु त्रिपर्वाणस्तापा अनुप्लवन्त इति संबन्धः । आधि भौतिकाधिदैविकयोस्तापयोर्बाह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिरस्या इत्यविद्या चित्तवृत्तिस्तया हातव्य एव बुद्धीन्द्रियशरीरादौ दारापत्यादौ चाहंकारममकारानुपातिनमिति । तदत्र न सम्यग्दर्शनादन्यत्परित्राणमस्तीत्याह-तदेवमिति ।
तदेवमौपाधिकं विषयसुखस्य परिणामतः संस्कारतापसंयोगाच्च दुःखत्वमभिधाय स्वाभाविकमादर्शयति-गुणवृत्तिविरोधाच्चेति । व्याचष्टे-प्रख्येति । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानुग्रहन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्यरूपोऽस्य परिणामः स्थिर इत्याह- चलं च गुणवृत्तिमिति क्षिप्रपरिणामि चित्तमुक्तं इति । नन्वेकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढत्वान्येकदा प्रतिपद्यत इत्यत आह-रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्त इति । रुपाण्यष्टौ, भावा धर्मादयो वृत्तयः सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि त्वसमुदाचरद्रूपाण्यतिशयैः समुदाचरद्भिः सहा विरोधात्प्रवर्तन्त इति । ननु गृह्णीम एतत्, तथापि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्यत आह-एतमेत इति । उपादानाभेदादुपादानात्मकत्वाच्चोपादेयस्याप्यभेद इत्यर्थः । तत्किमिदानीमात्यन्तिकमेव तादात्म्यम् । तथा च बुद्धिव्यपदेशभेदौ न कल्पेते इत्यत आह-गुणप्रधानेति । सामान्यात्मना गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्मादुपाधित: स्वभावतश्च दुःखमेव सर्वं विवेकिन इति ।
दुःखं च हेयं प्रज्ञावताम् । न च तन्निदानहानमन्तरेण तद्धेयं भवितुमर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूलनिदानमस्य दर्शयति-तदस्येति । दुःखसमुदायस्य प्रभव उत्पत्तिर्यतस्तद्वीजमित्यर्थः । तदुच्छेदहेतुं दर्शयति-तस्याश्चेति । इदानीमस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयतियथेति । चत्वारो व्यूहाः संक्षिप्तावयवरचना यस्य तत्तथोक्तम् । ननु दुःखं हेयमुक्त्वा संसारं हेयमभिदधतः कुतो न विरोध इत्यत आह-तत्र दुःखबहुल इति । यत्कृत्वाऽविद्या संसारं करोति तदस्या अवान्तरव्यापारं संसारहेतुमाह-प्रधानपुरुषयोरिति ।