________________
પા. ૨ સૂ. ૧૫] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ १७८
रागस्य च प्रवृत्तिहेतुत्वात्प्रवृत्तेश्च पुण्यापुण्योपचयकारित्वात्तत्रास्ति रागजः कर्माशयोऽसतोऽनुपजननात् । तथा च सुखं भुञ्जानस्तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि । तानि परिहर्तुमशक्तो मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । द्वेषवन्मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वमविरुद्धम् । ननु कथं रक्तो द्वेष्टि मुह्यति वा । रागसमये द्वेषमोहयोरदर्शनादित्यत आह- तथा चोक्तमिति विच्छिन्नावस्थान्क्लेशानुपपादयद्भिरस्माभिः (२।४) । तदनेन वाङ्मनसप्रवृत्तिजन्मनी पुण्यापुण्ये दर्शिते । रागादिजन्मनः कर्तव्यमिदमिति मानसस्य संकल्पस्य साभिलाषत्वेन वाचनिकत्व - म्याप्यविशेषात् । यथाहु:
"साभिलाषश्च संकल्पो वाच्यार्थान्नातिरिच्यते ।"
इति । शारीरमपि कर्माशयं दर्शयति- नानुपहत्येति । अत एव धर्मशास्त्रकाराः "पञ्च सूना गृहस्थस्य" (मनु. ३।६८) इत्याहु: । स्यादेतत् - न प्रत्यात्मवेदनीयस्य विषयसुखस्य प्रत्याख्यानमुचितं योगिनामनुभवविरोधादित्यत आह- विषयसुखं चाविद्येत्युक्तमिति । चतुर्विधविपर्यासलक्षणामविद्यां दर्शयद्भिरिति । नापातमात्रमाद्रियन्ते वृद्धाः । अस्ति खल्वापाततो मधुविषसंपृक्तान्नोपभोगेऽपि सुखानुभवः प्रत्यात्मवेदनीयः किंत्वायत्यामसुखम् । इयं च दर्शिता भगवतैव
“विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥" (गी. १८/३८) इति । चोदयति- या भोगेष्विति । न वयं विषयह्लादं सुखमातिष्ठामहे, किंत्वतृप्यतां पुंसाम् तत्तद्विषयप्रार्थनापरिक्लिष्टचेतसां तृष्णैव महदुःखम् । न चेयमुपभोगमन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः । तृप्तेस्तृष्णाक्षयाद्धेतोरिन्द्रियाणामुपशान्तिरप्रवर्तनं विषयेष्वित्यर्थः । एतदेव व्यतिरेकमुखेन स्पष्टयति- या लौल्यादिति । परिहरति- न चेन्द्रियाणामिति । हेतावनोः प्रयोगः । सत्यं तृष्णाक्षयः सुखमनवद्यम् । तस्य तु न भोगाभ्यासो हेतुरपि तु तृष्णाया एव तद्विरोधिन्याः । यथाहुः
" न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥"
महाभा० आदि. ८५/१२ ) इति । शेषमतिरोहितम् । तापदुःखतां पृच्छति- अथ केति । उत्तरम् - सर्वस्येति । सर्वजनप्रसिद्धत्वेन तत्स्वरूपप्रपञ्चमकृत्वा तापदुःखतापि परिणामदुःखतासमतया प्रपञ्चितेति ।
संस्कारदुःखतां पृच्छति- केति । उत्तरम् - सुखेति । सुखानुभवो हि