________________
પા. ૨ સૂ. ૧૩] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ १६७
तस्य कार्यम्, तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्बलादेव तदुत्पत्तेः । अनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत । अविधाने च तदनुत्पत्तेरिति सर्वं चतुरस्रम् ।
द्वितीयां गतिं विभजते-प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनम् । द्वे खलु हिंसादेः कार्ये - प्रधानाङ्गत्वेन विधानात्तदुपकारः, "न हिंस्यात्सर्वा भूतानि" (तलु० शान्ति० २७८।५ ) इति हिंसायाः प्रतिषिद्धत्वादनर्थश्च । तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधानतैवेत्यतो न द्रागित्येव प्रधाननिरपेक्षा सती स्वफलमनर्थं प्रसोतुमर्हति किं त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते । प्रधानसाहायकमाचरन्त्याश्च स्वकार्ये बीजमात्रतयावस्थानं प्रधाने कर्मण्यावापगमनम् । यत्रेदमुक्तं पञ्चशिखेन- "स्वल्पः संकरो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनानर्थहेतुनाऽपूर्वेण सपरिहारः । शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्म विपाकसमये च विपच्येत तथापि यावन्तमसावनर्थं प्रसूते तावान्सप्रत्यवमर्षः । मृष्यन्ते हि पुण्यसंभारोपनीतसुखसुधामहाहूदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम् । अत: कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः । पृच्छति कस्मादिति । उत्तरं - कुशलमिति । कुशलं हि मे पुण्यवतो बह्वन्यदस्ति । प्रधानकर्म विपाकतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम् । यत्रायं संकरः स्वल्पः स्वर्गेऽप्यस्य फले संकीर्णपुण्यलब्धजन्मन: स्वर्गात्सर्वथा दुःखेनापरामृष्टादपकर्षमल्पमल्पदुःखसंभेद करिष्यतीति ।
तृतीयां गतिं विभजते-नियतेति । बलीयस्त्वेनेह प्राधान्यमभिमतं न त्वङ्गितया । बलीयस्त्वं च नियतविपाकत्वेनान्यदानवकाशत्वात् । अनियतविपाकस्य तु दुर्बलत्वमन्यदा सावकाशत्वात् । चिरमवस्थानं बीजभावमात्रेण । न पुन: प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् । ननु प्रायणे नैकदैव कर्माशयोऽभिव्यज्यत इत्युक्तम् । इदानीं च चिरावस्थानमुच्यते । तत्कथं परं पूर्वेण न विरुध्यत इत्याशयवान्पृच्छति-कथमिति । उत्तरम् - अदृष्ट इति । जात्यभिप्रायमेकवचनम् । तदितरस्य गतिमुक्तामवधारयति - यत्त्वदृष्टेति । शेषं सुगमम् ॥१३॥
भले. उर्भाशय अविद्याभूस छे. विद्या (ज्ञान) उत्पन्न थतां अविद्या नष्ट થાય. મૂળ નષ્ટ થવાથી ભલે નવાં કર્મોનો સંચય ન થાય. પણ અનાદિ જન્મ પરંપરામાં સંચિત થયેલાં અને જેમના વિપાકનો કાળ નિશ્ચિત નથી એવાં અસંખ્ય પ્રાચીન કર્માશયોનો ભોગથી નાશ થવો સંભવિત ન હોવાથી, સંસારનો ઉચ્છેદ થવો શક્ય નથી. આ શંકાના સમાધાન માટે “સતિ મૂલે...” વગેરે સૂત્રથી કહે છે કે મૂળ હોય તો જ જન્મ, આયુ અને ભોગરૂપ એમનો (કર્મોનો) વિપાક થાય.