________________
१६६]
પતંજલિનાં યોગસૂત્રો
[५. २ सू. १३
जात्यायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयते । औत्सगिकमुपसंहरति- अत एकभविकः कर्माशय उक्त इति । एको भव एकभवः । पूर्वकाल (अष्टाध्यायी २।११४६) इत्यादिना समासः । एकभवोऽस्यास्तीति मत्वर्थीयष्ठन् । क्वचित्पाठ ऐकभविक इति । तत्रैकभवशब्दाद्भवार्थे ठक्प्रत्ययः । एकजन्मावच्छिन्नमस्य भवनमित्यर्थः ।
___ तदेवमौत्सर्गिकस्यैकभविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्ति-दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो मनुष्यजन्मनस्तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वाद् द्विविपाकः । नहुषस्य तु पाणिप्रहारविरोधिनागस्त्यस्येन्द्रपदप्राप्तिहेतुनैवकर्मणायुषो विहितत्वादपुण्यभेदो भोगमावहेतुः । ननु यथैकभविकः कर्माशयस्तथा किं क्लेशवासना भोगानुकूलाश्च कर्मविपाकानुभववासनाः । तथा च मनुष्यस्तिर्यग्योनिमापनो न तज्जातीयोचितं भुञ्जीतेत्यत आह- क्लेशेति । संमूछितमेकलोलीभावमापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपमाह - ये संस्कारा इति ।
__औत्सर्गिकमेकभविकत्वं क्वचिदपवदितुं भूमिकामारचयति- यस्त्वसाविति । तुशब्देन वासनातो व्यवच्छिनत्ति । दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायमेकभविकत्वनियमो न त्वदृष्टजन्मवेदनीयस्य । किंभूतस्यानियतविपाकस्येति । हेतुं पृच्छतिकस्मादिति । हेतुमाह-यो हीति । एकां तावद्गतिमाह-कृतस्येति । द्वितीयामाहप्रधानेति । तृतीयामाह-नियतेति ।
तत्र प्रथमां विभजते-तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्येव कर्माणि कृष्णकृष्णशुक्लशुक्लानि । तदिह तपःस्वाध्यायादिसाध्यः शुक्ल: कर्माशय उदित एवादत्तफलस्य कृष्णस्य नाशकोऽविशेषाच्च शबलस्यापि कृष्णभागयोगादिति मन्तव्यम् । अत्रैव भगवानाम्नायमुदाहरति-यत्रेदमिति । द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति संबन्धः । वीप्सया भूयिष्ठता सूचिता । कस्येत्यत आह-पापकस्येति पापकस्य पुंस इत्यर्थः । कोऽसावपहन्तीत्यत आह एको राशिः पुण्यकृतः इति । समूहस्य समूहिसाध्यत्वात् । तदनेन शुक्ल: कर्माशयस्तृतीय उक्तः । एतदुक्तं भवति- ईदृशो नामायं परपीडादिरहितसाधनसाध्यः शुक्लः कर्माशयो यदेकोऽपि सन्कृष्णाकृष्णशुक्लांश्चात्यन्तविरोधिनः कर्माशयान्भूयसोऽप्यपहन्ति । तत्तस्मादिच्छस्वेति छान्दसत्वादात्मनेपदम् । शेषं सुगमम् । अत्र च शुक्लकर्मोदयस्यैव स कोऽपि महिमा यत इतरेषामभावो न तु स्वाध्यायादिजन्मनो दुःखात् । न हि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्यदुःखविरोधी। न च स्वाध्यायादिजन्यं दुःखं