________________
પા. ૨ સૂ. ૧૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૧૬૫
सत्स्विति । अत्रैव दृष्टान्तमाह- यथा तुषेति । सतुषा अपि दग्घबीजभावा: स्वेदादिभिः । दान्तिके योजयति-तथेति । ननु न क्लेशा: शक्या अपनेतुम् । न हि सतामपनय इत्यत आह- न प्रसंख्यानदग्धक्लेशबीजभाव इति । विपाकस्य चैविध्यमाह- स चेति । विपच्यते साध्यते कर्मभिरिति विपाकः ।
कमैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा प्रथमा विचारणा । द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं चत्वारो विकल्पाः । तत्र प्रथम विकल्पमपाकरोति- न तावदेकं कमैकस्य जन्मन: कारणम् इति । पृच्छति-कस्मादिति । उत्तरमाह-अनादिकाल एकैकजन्मप्रचितस्यात एवासंख्येयस्यैकैकजन्मक्षपितादेकैकस्मात्कर्मणोऽवशिष्टस्य कर्मणः, सांप्रतिकस्य च फलकमानियमादनाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । एतदुक्तं भवति-कर्मक्षयस्य विरलत्वात्तदुत्पत्तिबाहुल्याच्चान्योऽन्यसंपीडिता: कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासा: स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं प्रेक्षावतेत्यनाश्वास: पुण्यानुष्ठानं प्रति प्रसक्त इति । द्वितीयं विकल्पं निराकरोति- न चैकं कर्मानेकस्य जन्मन: कारणम् । पृच्छतिकस्मादिति । उत्तरमाह-अनेकेष्विति । अनेकस्मिञ्जन्मन्याहितमेकैकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभाव: प्रसक्तः स चाप्यनिष्टः । कर्मवैफल्येन तदननुष्ठानप्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकस्मिन्फलक्रमानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्ये कर्मण्येकस्मिन्। तत्र हवसराभावाद्विपाककालाभाव एव सांप्रतिकस्येति भावः । तृतीयं विकल्पं निराकरोतिन चाने कनिकस्य जन्मनः कारणम् । तत्र हेतुमाह- तदिति । तदनेकं जन्म युगपत्र संभवत्ययोगिन इति क्रमेण वाच्यम् । यदि हि कर्मसहस्रं युगपज्जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रप्रक्षयादवशिष्टस्य विपाककाल: फलकमनियमश्च स्याताम् । न त्वस्ति जन्मनां योगपद्यम् । एवमेव प्रथमपक्ष एवोक्तं दूषणमित्यर्थः ।
तदेवं पक्षत्रये निराकृते पारिशेष्यादने कमैकस्य जन्मन: कारणमिति पक्षो व्यवतिष्ठत इत्याह- तस्माज्जन्मेति । जन्म च प्रायणं च जन्मप्रायणे । तयोरन्तरं मध्यम् । तस्मिन्विचित्रसुखदुःखफलोपहारेण विचित्रः । यदत्यन्तमुद्भूतमनन्तरमेव फलं दास्यति तत्प्रधानम् । यत्तु किञ्चिद्विलम्बेन तदुपसर्जनम् । प्रायणं मरणम् । तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखमुपनीत एकप्रघट्टकेन युगपत्संमूच्छितो जन्मादिलक्षणे कार्ये कर्तव्य एकलोलीभावमापन एकमेव जन्म करोति, नानेकम् । तच्च जन्म मनुष्यादिभावस्तेनैव कर्मणा लब्धायुष्कं कालभेदानियतजीवितं भवति । तस्मित्रायुषि तेनैव कर्मणा भोगः सुखदुःखसाक्षात्कारः स्वसंबन्धितया संपद्यत इति । तस्मादसौ कर्माशयो