________________
१४६ ]
પતંજલિનાં યોગસૂત્રો
I
स्तान्येवोपासते एवं धूमादिमार्गानुपासते चन्द्रसूर्यतारकाद्युलोकान्नित्यानभिमन्यमानास्तत्प्राप्तये । एवं दिवौकसो देवानमृतानिभिमन्यमानास्तद्भावाय सोमं पिबन्ति । आम्नायते हि अपाम सोमममृता अभूम (ऋग् ८|४८१३) इति । सेयमनित्येषु नित्यख्यातिरविद्या । तथाशुचौ परमबीभत्से काये । अर्धोक्त एव कायबीभत्सतायां वैयासिकीं गाथां पठति- स्थानादिति । मातुरदरं मूत्राद्युपहतं स्थानम् । पित्रोर्लोहितरेतसी बीजम् । अशितपीताहाररसादिभावः उपष्टम्भ:, तेन शरीरं धार्यते निःस्यन्दः प्रस्वेदः । निधनं च श्रोत्रियशरीरमप्यपवित्रयति, तत्स्पर्शे स्नानविधानात् । ननु यदि शरीरमशुचि कृतं तर्हि मृज्जलादिक्षालनेनेत्यत आह- आधेयशौचत्वादिति । स्वभावेनाशुचेरपि शरीरस्य शौचमाधेयं सुगन्धितेव कामिनीनामङ्गरागादिति । अर्धोक्तं पूरयति- इत्यशुचाविति । इत्युक्तेभ्यो हेतुभ्योऽशुचौ शरीर इति । शुचिख्यातिमाह - नवेति । हाव: शृङ्गारजा लीला । कस्य स्त्रीकायस्य परमबीभत्सस्य केन मन्दतमसादृश्येन शशाङ्कलेखादिना संबन्ध: । एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन । अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः । एवमर्जनरक्षणादिदुःखबहुलतयानर्थे धनादावर्थप्रत्ययो व्याख्यातः । सर्वेषां जुगुप्सितत्वेनाशुचित्वात् । तथा दुःख इति । सुगमम् । तथानात्मनीति । सुगमम् । तथैतदत्रोक्तं पञ्चशिखेन । व्यक्तं चेतनं पुत्रदारपश्चादि । अव्यक्तमचेतनं शय्यासनाशनादि । स सर्वोऽप्रतिबुद्धो मूढः ।
I
-
[पा. २ सू. ५
चत्वारि पदानि स्थानान्यस्या इति चतुष्पदा । नन्वन्यापि दिङ्मोहालातचक्रादिविषयानन्तपदाऽविद्या । तत्किमुच्यते चतुष्पदेत्यत आह- मूलमस्येति । सन्तु नामान्या अप्यविद्याः संसारबीजं तु चतुष्पदैवेति ।
नन्वविद्येति नञ्समासः पूर्वपदार्थप्रधानो वा स्याद्यथाऽमक्षिकमिति । उत्तरपदार्थप्रधानो वा यथाऽराजपुरुष इति । अन्यपदार्थप्रधानो वा यथाऽमक्षिको देश इति । तत्र पूर्वपदार्थप्रधानत्वे विद्याया: प्रसज्यप्रतिषेधो गम्येत । न चास्यां क्लेशादिकारणत्वम्, उत्तरपदार्थप्रधानत्वे विद्यैव कस्यचिदभावेन विशिष्टा गम्येत । सा च क्लेशादिपरिपन्थिनी न तु तद्बीजम् । न हि प्रधानोपघाती प्रधानगुणो युक्तः । तदनुपघाताय गुणे त्वन्याय्यकल्पना । तस्माद्विद्यास्वरूपानुपघाताय नञोऽन्यथाकरणमध्याहारो वा निषेध्यस्येति । अन्यपदार्थप्रधानत्वे त्वविद्यमानविद्या बुद्धिर्वक्तव्या । न चासौ विद्याया अभावमात्रेण क्लेशादिबीजम् । विवेकख्यातिपूर्वकनिरोधसंपन्नाया अपि तथात्वप्रसङ्गात् । तस्मात्सर्वथैवाविद्याया न क्लेशादिमूलतेत्यत आह- तस्याश्चेति । वस्तुनो भावो वस्तुसतत्त्वं वस्तुत्वमिति यावत् । तदनेन न प्रसज्यप्रतिषेधः, नापि विद्यैवाविद्या । न तदभावविशिष्टा बुद्धिः । अपि तु विद्याविरुद्धं विपर्ययज्ञानम