________________
પા. ર સૂ. ૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વશારદી [ ૧૩૯
बीजभावोपगमः, तस्य प्रबोध आलम्बने संमुखीभावः । प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति, अतः क्षीणक्लेशः कुशलश्चरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इति उक्ता प्रसुप्तिः, दग्धबीजानामप्ररोहश्च । ।
तनुत्वमुच्यते - प्रतिपक्षभावनोपहता: क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथम् ? रागकाले क्रोधस्यादर्शनात्, न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः, किं तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यवृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः ।
सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति । उच्यते-सत्यमेवैतत् । किं तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति । सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात् ? सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते, क्षीयमाणां चाविद्यामनुक्षीयन्त इति ॥४॥
પ્રસુત, ક્ષીણ, છેદાયેલા અને ઉદાર (કાર્યક્ષમ) એવા પછીના અમિતા વગેરે ચાર પ્રકારના વિકલ્પોનું ક્ષેત્ર એટલે જન્મભૂમિ અવિદ્યા છે. આમાં પ્રસુપ્તિ કઈ ? ચિત્તમાં શક્તિમાત્ર રૂપે રહેલા કે બીજભાવને પ્રાપ્ત થયેલા પ્રસુપ્ત કહેવાય છે. એમનો પ્રબોધ એટલે આલંબન મળતાં સંમુખ પ્રગટ થવું. જે યોગીના ચિત્તમાં પ્રસંખ્યાન (વિવેકખ્યાતિ)ના બળે ક્લેશો બળેલા બીજ જેવા થયા હોય, એની સંમુખ આલંબન (વિષય) ઉપસ્થિત થાય, તો પણ એમનો પ્રબોધ થતો નથી. બળેલું બીજ ક્યાંથી ઊગે ? તેથી એવો યોગી ક્ષણ ક્લેશ, કુશળ, અને ચરમદેહ (છેલ્લા શરીરવાળો) કહેવાય