________________
१६]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. २
भाष्य स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति । प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति, तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥२॥
એ (કર્મયોગ) સેવવાથી સમાધિ સિદ્ધ થાય છે, અને ક્લેશો ઓછા થાય છે. ઓછા થયેલા ફ્લેશો પ્રસંખ્યાન (ધ્યાન)ના અગ્નિથી બાળેલા અને અંકુરિત ન થઈ શકે એવા બીજ જેવા થશે, અને એમના ઓછા થવાથી ફરીવાર ક્લેશોથી અસંસ્કૃષ્ટ બનેલી, સત્ત્વ અને પુરુષની ભિન્નતામાત્રના જ્ઞાનવાળી સૂક્ષ્મ પ્રજ્ઞા, પોતાનો અધિકાર (કર્તવ્ય) સમાપ્ત થતાં, પોતાના કારણમાં લીન બનવા સમર્થ થશે. ૨
तत्त्व वैशारदी तस्य प्रयोजनाभिधानाय सूत्रमवतारयति- स हीति । सूत्रं - समाधिभावनार्थ: क्लेशतनूकरणार्थश्च । ननु क्रियायोग एव चेत्क्लेशान्प्रतनूकरोति कृतं तर्हि प्रसंख्यानेनेत्यत आह- प्रतनूकृतानीति । क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु वध्यत्वे क्लेशानाम् । प्रसंख्यानस्य तु तद्वन्ध्यत्वे । दग्धबीजकल्पानिति वन्ध्यत्वेन दग्धकलमबीजसारूप्यमुक्तम् । स्यादेतत्- प्रसंख्यानमेव चेत्क्लेशानप्रसवर्मिणः करिष्यति, कृतमेषां प्रतनूकरणेनेत्यत आह- तेषामिति । क्लेशानामतानवे हि बलवद्विरोधिग्रस्ता सत्त्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते प्रागेव तद्वन्ध्यभावं कर्तुम् । प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते । उपजाता च तैरपरामृष्टानभिभूता नैव यावत्परामृश्यत इति । सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा । अतीन्द्रियतया सूक्ष्मोऽस्या विषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः ? यतः समाप्ताधिकारा समाप्तोऽधिकारः कार्यारम्भणं गुणानां यथा हेतुभूतया सा तथोक्तेति ॥२॥
भेना (भयोगना) प्रयोनने वा माटे "सर" वगैरेची सूत्र २४ ६३ छे. “समाधिमानार्थः..." वगेरे सूत्र छ. d यायो ४ प्रदेश क्षी કરતો હોય, તો પ્રસંખ્યાનની શી જરૂર છે ? એના જવાબમાં “પ્રતનૂકુતા” વગેરેથી કહે છે કે ક્રિયાયોગનું કામ ક્લેશો ઓછા કરવા પૂરતું જ છે, એમને વંધ્ય બનાવવાનું નથી. પ્રસંખ્યાન તો એમને વંધ્ય બનાવે છે. બાળેલા બીજ જેવા એટલે