________________
१३४]
પતંજલિનાં યોગસૂત્રો
[५. २ सू. १
द्वितीयपादोपदेश्यानुपायानपेक्षते सत्त्वशुद्ध्यर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति । समाहितत्वमविक्षिप्तत्वम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरुपायैर्युक्तः सन् योगी स्यादित्यर्थः । तत्र वक्ष्यमाणेषु नियमेष्वाकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः- तपःस्वाध्यायेत्यादि । क्रियैव योगः क्रियायोगो योगसाधनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे
"योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते ।" (६।७।३३)
इत्युपक्रम्य तप:स्वाध्यायादयो दर्शिताः । व्यतिरेकमुखेन तपस उपायत्वमाह नातपस्विन इति । तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति- अनादीति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रात एव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता । अशुद्धी रजस्तम:समुद्रेको नान्तरेण तप: संभेदमापद्यते । सान्द्रस्य नितान्तविरलता संभेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इत्यत आह-तच्चेति । तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमापद्यतेत्यर्थः ।
प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारायणादयः । परमगुरुर्भगवानीश्वरस्तस्मिन् । यत्रेदमुक्तम् -
"कामतोऽकामतो वापि यत्करोमि शुभाशुभम् ।
तत्सर्वं त्वपि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥" इति । तत्फलसंन्यासो वा । फलानभिसंधानेन कार्यकरणम् । यत्रेदमुक्तम् -
"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
माकर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ (भ.गी. २।४७) इति ॥१॥
પહેલા પાદમાં જ ઉપાયો સાથે, અવાજોર (ગૌણ) ભેદો સાથે, અને ફળ સાથે યોગ કહ્યો. તો બીજું શું બાકી રહે છે, જેને માટે બીજો પાદ આરંભવો પડે छ ? भेना ४Mwi "उद्दिष्ट:..." वगेरेथी 53 छ । प्रथम ५६मां योगना ઉપાય તરીકે અભ્યાસ અને વૈરાગ્ય કહ્યા અને એ વ્યસ્થિતચિત્ત (નિરર્થક વિવિધ વિચારો નિરંતર ઊડ્યા કરે એવી ચિત્તસ્થિતિવાળા) મનુષ્યને એકદમ અમલમાં મૂકવા સંભવિત ન બને. તેથી એવા માણસો સત્ત્વ (અંતઃકરણ)ની શુદ્ધિ માટે બીજા પાદમાં ઉપદેશ કરવામાં આવનાર ઉપાયોની અપેક્ષા રાખે છે. પછી વિશુદ્ધસત્વ બની, તેઓ પોતાની (પતનની સંભાવનાઓથી) રક્ષાનું વિધાન કરીને દરરોજ અભ્યાસ અને વૈરાગ્યનું અનુષ્ઠાન કરે છે.