________________
११८]
પતંજલિના યોગસૂત્રો
[५. १ सू. ४५
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥४५॥ સૂક્ષ્મ વિષય અલિંગ (પ્રકૃતિ) સુધી વિસ્તરે છે. ૪૫
भाष्य पार्थिवस्याणोर्गन्धतन्मानं सूक्ष्मो विषयः, आप्यस्य रसतन्मात्रम्, तैजसस्य रूपतन्मात्रम्, वायवीयस्य स्पर्शतन्मात्रम्, आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्गमानं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः न चालिङ्गात्परं सूक्ष्ममस्ति । नन्वस्ति पुरुषः सूक्ष्म इति ? सत्यम् । तथा लिङ्गात्परमलिङ्गस्य सौक्ष्यं न चैवं पुरुषस्य किं तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्यं निरतिशयं व्याख्यातम् ॥४५॥
પાર્થિવ (પૃથ્વીના) અણુનો ગંધતન્માત્રા સૂક્ષ્મ વિષય છે. જળના પરમાણુનો રસ તન્માત્રા, તેજના પરમાણુનો રૂપ તન્માત્રા, વાયુના પરમાણુનો સ્પર્શતક્નાત્રા, આકાશના પરમાણુનો શબ્દતન્માત્રા, એમનો (શબ્દતન્માત્રાઓનો) અહંકાર, અહંકારનો લિંગમાત્ર, લિંગમાત્રનો અલિંગ સૂક્ષ્મ વિષય છે. અલિંગથી આગળ કોઈ સૂક્ષ્મતત્ત્વ નથી.
પણ પુરુષ એનાથી પણ સૂક્ષ્મ છે ને ? સાચી વાત છે. પરંતુ લિંગથી પર અલિંગની જેવી સૂક્ષ્મતા છે, એવી સૂક્ષ્મતા પુરુષની નથી. પુરષ લિંગનું અન્વયી (ઉપાદાન) કારણ બનતો નથી, પણ હેતુ બને છે. તેથી પ્રધાનમાં સૂક્ષ્મતાની પરાકાષ્ઠા જણાવી. ૪૫
__ तत्त्व वैशारदी किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते ? न । किंतु-सूक्ष्मविपयत्वं चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः संबन्धिनी या गन्धतन्मात्रता सा समापत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिगं प्रधानं तद्धि न क्वचिल्लयं गच्छतीत्यर्थः । अलिंगपर्यवसानत्वमाहन चालिङ्गात्परमिति । चोदयति- ननु इति । पुरुषोऽपि सूक्ष्मो नालिङ्गमेवेत्यर्थः । परिहरति-सत्यमिति । उपादानतया सौक्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थनिमित्तत्वान्महदहंकारादेः पुरुषोऽपि कारणमलिङ्गवदिति । कुत एवं