________________
११०]
પતંજલિનાં યોગસૂત્રો
[4. १ सू. ४३
त्वावृतत्वानावृतत्वरक्तत्वारक्तत्वचलत्वाचलत्वलक्षणो विरुद्धधर्मसंसर्ग इत्यत आह-यस्य पुनरिति । अयमभिप्राय:-अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत्किल पांशुलपादुको हालिकोऽपि प्रतिपद्यतेऽन्यद्वानुभवसिद्धात् । तत्रान्यदसिद्धत्वादहेतुः । अनुभवसिद्धं तु घटादीनां सत्त्वमर्थक्रियाकारित्वरूपं न स्थूलादन्यत् । सोऽयं हेतुः स्थूलत्वमपाकुर्वनात्मानमेव व्याहन्ति । ननु न स्थूलत्वमेव सत्त्वम् । अपि त्वसतो व्यावृत्तिः । अस्थौल्यव्यावृत्तिश्च स्थौल्यम् । व्यावर्त्यभेदाच्चव्यावृत्तयो भिद्यन्ते । अतः स्थौल्याभावेऽपि न सत्त्वव्याहतिः, अन्यत्वात् । भवतु वा व्यावृत्तिभेदादवसायविषयभेदः । यत्पूर्वकास्त्ववसायास्तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषय इति निरूपयतु भवान् । रूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्वा इति चेद्, हन्तैतेगन्धरसस्पर्शपरमाणुभिरन्तरिता न निरन्तराः । तस्मादन्तरालाग्रह एकघनवनप्रत्ययवत्परमाण्वालम्बनः सत्रयं विकल्पो मिथ्येति तत्प्रभवा विकल्पा न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस्तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम् । तस्मादविकल्पकस्य प्रत्यक्षस्य प्रामाण्यमिच्छता तदनुभूयमानस्थौल्यस्यैव सत्त्वमविकल्पावसेयमकामयताप्यभ्युपेयम् । तथा च तद्बाधमानं सत्त्वमात्मानमेवापबाधेत । परमसूक्ष्माः परमाणवो विजातीपरमाण्वनन्तरिता अनुभवविषया इति व्याहतमङ्गीकरणम् । तदिदमुक्तं-यस्य पुनरवस्तुकः स प्रचयविशेषो निर्विकल्पस्य विषयः । सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविषया इत्यत आह- सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्येति । तस्यावयव्यभावाद्धेतोरतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति लक्षणेन सर्वमेव प्राप्तं मिथ्याज्ञानं यत्स्थौल्यालम्बनं यच्च तदधिष्ठानसत्त्वालम्बनमित्यर्थः । नन्वेतावतापि न ज्ञानमात्मनि मिथ्या भवति तस्यावयवित्वेनाप्रकाशादित्यत आह- प्रायेणेति ।
ननु किमेतावतापीत्यत आह- तदा चेति । सत्त्वादिज्ञानं चेन्मिथ्या तदा सत्त्वादिहेतुकमनवयवित्वादिज्ञानमपि मिथ्यैव । तस्यापि हि निर्विकल्पागोचरस्थूलमेवावसेयतया विषयः, स च नास्तीति तात्पर्यार्थः । विषयाभाव एव कुत इत्यत आह- यद्यदिति । विरोधश्च परिणामवैचित्र्येण भेदाभेदेन चोक्तोपपत्त्यनुसारेणोद्धर्तव्य इति सर्वं रमणीयम् ॥४३।।
“यह पुन:..."थी सूत्रने यो४१। भाटे, पडेल निवितई सभापत्ति समावे છે. પરિશુદ્ધિ એટલે દૂર કરવું. શબ્દસંકેતના સ્મરણપૂર્વક આગમ અને અનુમાન પ્રવર્તે છે. અને સંકેત, ગાય એ શબ્દ, એનો અર્થ અને એનું જ્ઞાન, એ ત્રણેના પરસ્પર અધ્યાસરૂપ છે. એનાથી આગમ (શબ્દ) અને અનુમાનજ્ઞાન રૂપ વિકલ્પો ઉત્પન્ન થાય છે. તેથી એમની સાથે થતી સમાધિ-પ્રજ્ઞા સવિતર્યા છે. પણ જ્યારે