________________
पा. १ सू. ४३] व्यासयित माध्य भने वायस्पति मिश्रयित तत्पवैशाही [ १०८
तस्मादिति । व्याख्येयं सूत्रं योजयति - निवितर्काया इति । स्मृतिपरिशुद्धावित्यादि सूत्रम् । शब्दसंकेतश्च श्रुतं चानुमानं च तेषां ज्ञानमेव विकल्पस्तस्मात्स्मृतिस्तस्याः परिशुद्धिरपगमस्तस्याम् । अत्र च संकेतस्मृतिपरिशुद्धिहेतुः । श्रुतादिज्ञानस्मृतिपरिशुद्धिश्च हेतुमती । अनुमानशब्दश्च कर्मसाधनोऽनुमेयवाचकः । स्वमिवेतीवकारो भिन्नक्रमस्त्यक्त्वेतिपदानन्तरं द्रष्टव्यः ।
विषयविप्रतिपत्तिं निराकरोति-तस्या एकेति । एकां बुद्धिमुपक्रमत आरभत इत्येकबुद्ध्युपक्रमः । तदनेन परमाणवो नानात्मानो न निर्वितर्कविषया इत्युक्तं भवति । योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्त्वैकार्थसमवेतैकत्वनिर्भासप्रत्ययविषयत्वायोगात् । अस्तु तर्हि परमार्थसत्सु परमाणुषु सांवृत्तः प्रतिभासधर्मः स्थौल्यमित्यत आह- अर्थात्मेति । नासति बाधके स्थूलमनुभवसिद्धं शक्यापह्नवमिति भावः । तत्र ये पश्यन्ति व्यणुकादिक्रमेण गोघटादय उपजायन्त इति तान्प्रत्याहअणुप्रचयेति । अणूनां प्रचयः स्थूलरूपपरिणामः । स च विशिष्यतेऽन्यस्मात्परिणामान्तरात् । स एवात्मा स्वरूपं यस्य स तथोक्तः । गवादिर्भोगायतनम् । घटादिविषयः । तच्चैतदुभयमपि लोक्यत इति लोकः । नन्वेषभूतसूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्यात् । भिन्नश्चेत्कथं तदाश्रयः कथं च तदाकारः । न हि घटः पटादन्यस्तदाकारस्तदाश्रयो वा । अभिन्नश्चेत्तद्वदेव सूक्ष्मोऽसाधारणश्च स्यादत आह-स चेति । अयमभिप्रायः -नैकान्ततः परमाणुभ्यो भिन्नो घटादिरभिन्नो वा । भिन्नत्वे गवाश्ववद्धर्मर्मिभावानुपपत्तेः । अभिन्नत्वे धर्मिरूपवत्तदनुपपत्तेः । तस्मात्कथञ्चिद्भित्रः कथञ्चिदभिन्नश्चास्थेयः । तथा च सर्वमुपपद्यते । भूतसूक्ष्माणामिति षष्ठ्या कथंचिद्भेदं सूचयति । आत्मभूत इति चाभेदम् । फलेन व्यक्तेन तदनुभवलक्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः । कारणाभेदेन च कारणाकारतोपपनेत्याहस्वव्यञ्जकाञ्जन इति । स किं तदात्मभूतो धर्मो नित्यः । नेत्याह-धर्मान्तर इति । धर्मान्तरस्य कपालादेरुदय इत्यर्थः । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपमादर्शयतिस एष इति । परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादिधारणलक्षणा तद्धर्मक इति । न केवलमनुभवादपि तु व्यवहारतोऽपि तत्रिबन्धनत्वाल्लोकयात्राया इत्याह-तेनेति ।
स्यादेतत्-असति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकं यत्सत्तत्सर्वमनवयवं यथा विज्ञानम् । सच्च गोघटादीति स्वभाव हेतुः । सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तम् । तद्विरुद्धश्च विरुद्धधर्मसंसर्गः सावयव उपलभ्यमानो व्यापकविरुद्धोपलब्ध्या सत्त्वमपि निवर्तयति । अस्ति चावयविनि तद्देशत्वाऽतद्देश