________________
८६]
પતંજલિનાં યોગસૂત્રો
[पा. १ सू. ३२
वैराग्ययोर्मध्येऽभ्यासस्यानन्तरोक्तस्येति । तत्प्रतिषेधार्थमित्यादि । एकं तत्त्वमीश्वरः प्रकृतत्वादिति । वैनाशिकानां तत्सर्वमेकाग्रमेव चित्तं नास्ति किञ्चिद्विक्षिप्तमिति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यमित्याह-यस्य त्विति । यस्य मते प्रत्यर्थे ऽlमाण एकस्मिन्नने कस्मिन्वा नियतं यावदर्थावभासमुत्पत्र तत्रैव समाप्तमनन्यगामि । अर्थान्तरं तावत्प्रथमं गृहीत्वार्थान्तरमपि पश्चात्कस्मान्न गृह्णातीत्यत आह-क्षणिकं च । क्षणस्याभेद्यत्वेन पूर्वपश्चाद्भावस्याप्यभाव इति भावः । अस्मन्मते त्वक्षणिकं चित्तं स्वविषय एकस्मिन्ननेकस्मिन्वानवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विषयानियतं विक्षिप्तमतो विक्षेपपरिणाममपनीय शक्यैकाग्रताधातुमिति तदुपदेश-प्रवृत्त्यो नर्थकत्वमित्याह-यदि पुनरिदमिति । उपसंहरति-अतो नेति । वैनाशिकमुत्थापयति-योऽपीति । मा भूदेकस्मिन्क्षणिके चित्त एकाग्रताधानप्रयत्नः । चित्तसंताने त्वनादावक्षणिके विक्षेपमपनीयैकाग्रताधास्यत इत्यर्थः । तदेतद्विकल्प्य दूषयति-तस्येति । तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसंतानस्य वा धर्मः । तत्रैकं क्रमवदुत्पादेषु प्रत्ययेष्वनुगतं नास्ति प्रवाहचित्तम् । कुतः ? यद्यावदस्ति तस्य सर्वस्य क्षणिकत्वादक्षणिकस्य चासत्त्वाद्भवतां दर्शन इति भावः । द्वितीयं कल्पं गृह्णाति-अथेति । सांवृतस्य प्रवाहस्यांशः प्रत्ययः परमार्थः सन्, तस्य प्रत्ययस्यैकाग्रता प्रयत्नसाध्यो धर्मः । दूषयति-स सर्व इति । सांवृतप्रवाहापेक्षया सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा । अत: परमार्थसता रूपेण प्रत्यर्थनियतत्वाद्यदर्थावभास उत्पन्नस्तत्र समाप्तत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः, यदपनयेनैकाग्रताधीयत इति । उपसंहरति तस्मादिति ।
इतोऽपि चित्तमेकमनेकार्थमवस्थितं चेत्याह-यदि चेति । यथा हि मैत्रेणाधीतस्य शास्त्रस्य न चैत्रः स्मरति । यथा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा कर्माशयस्य फलं तदसंबन्धी चैत्रो न भुङ्क्त एवं प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरोपचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरमुपभुञ्जीतेत्यर्थः । ननु नातिप्रसज्यते, कार्यकारणभावे सतीति विशेषणाच्छ्राद्धवैश्वानरीयेष्ट्यादावकर्तृमातृपितृपुत्रादिगामिफलदर्शनान्मधुररसभावितानामाम्रबीजादीनां परम्परया फलमाधुर्यनियमादित्यत आह-कथञ्चित् समाधीयमानमप्येतदिति । अयमभिसंधिः - कः खल्वेकसंतानवर्तिनां प्रत्ययानां संतानान्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसंतानवर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्माशयस्य तत्संतानवत्येव प्रत्ययः स्मर्ता भोक्ता च स्यान्नान्यसंतानवर्ती । न हि संतानो नाम कश्चिदस्ति वस्तुसन् य एनं संतानिनं संतानान्तरवर्तिभ्यो भिन्द्यात् । न च काल्पनिको भेदः क्रियायामुपपद्यते । न खलु कल्पिताग्निभावो माणवकः पचति । न च कार्यकारणभावसंबन्धोऽपि वास्तवः ।