________________
પા. ૧ સૂ. ૨૫] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી
[ ૭૧
इत्यागमः । तस्मात्संज्ञादिविशेषप्रतिपत्तिः, संज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः । आदिपदेन षडङ्गतादशाव्ययते संगृहीते । यथोक्तं वायुपुराणे
"सर्वज्ञता तृप्तिरनादिबोध: स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोविधिज्ञा: षडाहुरङ्गानि महेश्वरस्य ॥" (१२।३३) तथा- "ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ।। अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥"
(तत्रैव १० ।६५-६६) इति । स्यादेतत्-नित्यतृप्तस्य भगवतो वैराग्यातिशयसंपन्नस्य स्वार्थे तृष्णासंभवात्कारुणिकस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्यत आह- तस्यात्मानुग्रहाभावेऽपीति । भूतानां प्राणिनामनुग्रहः प्रयोजनम् । शब्दाद्युपभोगविवेकख्यातिरूपकार्यकरणात्किल चरितार्थं चित्तं निवर्तते । ततः पुरुषः केवली भवति । अतस्तत्प्रयोजनाय कारुणिको विवेकख्यात्युपायं कथयति । तेनाचरितार्थत्वाच्चित्तस्य जन्तूनीश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः । विवेकख्यात्युपायकथने द्वारमाह- ज्ञानधर्मोपदेशेनेति । ज्ञानं न धर्मश्च ज्ञानधर्मों, तयोरुपदेशेन ज्ञानधर्मसमुच्चयाल्लब्धविवेकख्यातिपरिपाकात्कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्जं जगदस्तमेति । महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाजः । कल्पेत्युपलक्षणमन्यदापि । स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्यर्थः । एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिलानामपि सिद्धमित्याह-तथा चोक्तमिति । पञ्चशिखाचार्येण-आदिविद्वान् कपिल इति । आदिविद्वानिति पञ्चशिखाचार्यवचनमादिमुक्तस्वसंतानादिगुरुविषयं न त्वानादिमुक्त परमगुरुविषयम् । आदिमुक्तेषु कदाचिन्मुक्तेषु विद्वत्सु कपिलोऽस्माकमादिविद्वान्मुक्तः स एव च गुरुरिति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः श्रूयत इति । कपिलो नाम विष्णोरवतारविशेषः प्रसिद्धः । स्वयंभूहिरण्यगर्भः । तस्यापि सांख्ययोगप्राप्तिर्वेदे श्रूयते । स एवेश्वर आदिविद्वान्कपिलो विष्णुः स्वयंभूरिति भावः । स्वायंभुवानां त्वीश्वर इति भावः ॥२५।।
આમ એની (ઈશ્વરની) ક્રિયા અને જ્ઞાનશક્તિમાં શાસ્ત્રનું પ્રમાણ આપીને, “કિ ચ” વગેરે સૂત્રથી એની જ્ઞાનશક્તિ દર્શાવવા અનુમાન પ્રમાણ પ્રસ્તુત કરે છે :