________________
७०]
પતંજલિનાં યોગસૂત્રો
[પા. ૧ સૂ. ૨૫
એ પુરુષવિશેષનાં નામો વગેરે વિશેષોનું જ્ઞાન આગમ (વેદ)માંથી મેળવવું मे.
ઈશ્વરને પોતાનો કોઈ હેતુ પાર પાડવાનો નથી. છતાં પ્રાણીઓ પર અનુગ્રહ કરવો એ એનું પ્રયોજન છે. કલ્પ, પ્રલય અને મહાપ્રલય દરમ્યાન સતત જન્મમરણ રૂપ સંસાર અનુભવતા જીવોનો જ્ઞાન અને ધર્મના ઉપદેશથી ઉદ્ધાર કરીશ, એવો એમનો હેતુ છે. આ વિષે કહ્યું છે કે આદિ વિદ્વાન પરમ ઋષિ ભગવાન કપિલે કરણાથી પોતાના સંકલ્પ વડે નિર્મેલા ચિત્તનો આશ્રય કરીને, જિજ્ઞાસુ આસુરી મુનિને તંત્ર (સાંખ્યશાસ્ત્ર) કહ્યું.
तत्त्व वैशारदी एवमस्य क्रियाज्ञानशक्तौ शास्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयतिकिञ्चेति-तत्र निरतिशयं सर्वज्ञबीजम् । व्याचष्टे-यदिदमिति । बुद्धिसत्त्वावरकतमोऽपगमतारतम्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानामतीन्द्रियाणां ग्रहणं, तस्य विशेषणमल्पं बह्विति, सर्वज्ञबीजं कारणम् । कश्चित्किचिदेवातीतादि गृह्णाति कश्चिद्बहु कश्चिद्बहुतरं कश्चिद्बहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् । एतद्धिवर्धमानं यत्र निष्कान्तमतिशयात्स सर्वज्ञ इति । तदनेन प्रमेयमात्रं कथितम् । अत्र प्रमाणयति- अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्येति । साध्यनिर्देशः । निरतिशयत्वं काष्ठा, यतः परमतिशयवत्ता नास्तीति । तेन नावधिमात्रेण सिद्धसाधनम् । सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्वं निरतिशयं, यथा कुवलामलकबिल्वेषु सातिशयं महत्त्वमात्मनि निरतिशयमिति व्याप्ति दर्शयति - परिमाणवदिति । न च गरिमादिभिर्गुणैर्व्यभिचार इति सांप्रतम् । न खल्ववयवगरिमातिशयी गरिमावयविनः । किं त्वापरमाणुभ्य आन्त्यावयविभ्यो यावन्तः केचन तेषां सर्वेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमवर्धमानाभिमानः। ज्ञानं तु न प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः। उपसंहरतियत्र काष्ठेति ।
ननु सन्ति बहवस्तीर्थंकरा बुद्धार्हतकपिलर्षिप्रभृतयः । तत्कस्मात्त एव सर्वज्ञा न भवन्त्यस्मादनुमानादित्यत आह-सामान्येति । कुतस्तर्हि तद्विशेषप्रतिपत्तिरित्यत आहतस्येति । बुद्धादिप्रणीतश्चागमाभासो न त्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वादिति भावः । तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमत आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया