________________
પરત્વાપરત્વ-નિરૂપણ
कारिकावली : परत्वं चापरत्वं च द्विविधं परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त्त एव तु दैशिकम् ॥१२१॥ परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥१२२॥ तयोरसमवायी तु दिक्संयोगस्तदाश्रये । दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥ १२३ ॥ परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात्संयोगः कालपिण्डयोः ॥ १२४ ॥ अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः ।
मुक्तावली : परापरव्यवहारनिमित्ते परत्वापरत्वे निरूपयति-परत्वमपरत्वं चेति । दैशिकमिति । दैशिकपरत्वं बहुतरमूर्तसंयोगान्तरितत्वज्ञानादुत्पद्यते, एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते । अत्रावधित्वार्थं पञ्चम्यपेक्षा, यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः, पाटलिपुत्रात् कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति । तयोः दैशिकपरत्वापरत्वयोः । असमवायी = असमवायिकारणम् । तदाश्रये= दैशिकपरत्वापरत्वाश्रये । दिवाकरेति । अत्र परत्वमपरत्वं च कालिकं ग्राह्यम् । यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः, यस्य न्यूनः स कनिष्ठः । कालिकपरत्वापरत्वे जन्यद्रव्ये एव । अत्र=कालिकपरत्वापरत्वयोः । तेषां = कालिकदैशिकपरत्वापरत्वानाम् ।
भुतावसी : ( १०-११ ) परत्वापरत्व-नि३पा : पर जने अपरनो के व्यवहार થાય છે તેનું અસાધારણ કારણ પરત્વ અને અપરત્વ ગુણ છે. તે બે પ્રકારના છે : વૈશિક खने असिड.
દૈશિક પરત્વાપરત્વ : મૂર્ત વસ્તુઓમાં જ દૈશિક પરત્વાપરત્વ ઘટી શકે છે. મૂર્તસંયોગના ભૂયત્વના જ્ઞાનથી તેમાં દૈશિક પરત્વ ઉત્પન્ન થાય છે અને અલ્પીયસ્ત્વના
ન્યાયસિદ્ધાન્તમુક્તાવલી ભાગ-૨ ૭ (૨૦૫)