________________
पञ्चाशकशास्त्रसन्दर्भ: अण्णोऽवि अत्थि चित्तो तहा तहा देवयाणिओएण । मुद्धजणाण हिओ खलु रोहिणिमाई मुणेयब्बो ॥ २३ ॥ किंच-अण्णोऽवी त्यादि, अन्यदपि अस्ति विद्यते चित्रं तप इति गम्यते, तथा तथा =तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन=देवतोद्देशेन मुग्धजनानां= अव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात्, रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि मुणेयव्यो त्ति ज्ञातव्यं, पुंलिंगता च सर्वत्र प्राकृतत्वात् । इति गाथार्थः ।। २३ ॥ जत्थ कसायणिरोहो बंभं जिणपूयणं अणसणं च । सो सम्बो चेव तवो विसेसओ मुद्धलोयंमि ।। २६ ॥ एवं पडिवत्तीए एतो मग्गाणुसारिभावाओ। चरणं विहियं बहवो पत्ता जीवा महाभागा ॥ २७ ॥
अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह - जत्थेत्यादि, यत्र तपसि कषायनिरोधो, ब्रह्म, जिनपूजनमिति व्यक्तं, अनशनं च = भोजनत्यागः सो ति तत् सर्वं भवति तपो, विशेषत: मुग्धलोके, मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते न पुनरादित एव तदर्थं प्रवर्त्तितुं शक्नोति, मुग्धत्वादेवेति । सबुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव तपस्यन्ति, यदाहमोक्षार्थमेव विहितमिदमिति बुद्ध्यैव तपस्यन्ति, यदाह-'मोक्षायैव तु घटते विशिष्ट मतिरुत्तमः पुरुषः' इति, मोक्षार्थ-घटना चागमविधिनैव, आलंबनान्तरस्यानाभोगहेतुत्वात् । इति गाथार्थः ।।२६ ।।
___ न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वा चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह-एवमित्यादि, एवमित्युक्तानां सार्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तपोरूपोपचारेण तथा इत:उक्तरूपकषायादिनिरोधप्रधानात्तपसः पाठान्तरेण एवमुक्त कारणेन = मार्गानुसारिभावात् सिद्धिपथानुकूलाध्यवसायात् चरणं चारित्रं विहितं आप्तोपदिष्टं बहवः-प्रभूताः प्राप्ता-अधिगताः जीवा:=सत्त्वा महाभागा-महानुभावाः । इति गाथार्थः ।। २७ ।।
(१०५)
पढियो तवो विसेसो अण्णेहिवि तेहि तेहिं सत्थेहिं । मग्गपडिवत्तिहेउ हंदि विणेयाणुगुण्णेणं ॥ २९ ॥
__ किमिति आह-पठितः अधीतस्तपोविशेषः तपोभेदः अन्यैरपि ग्रन्थकारैः तेषु तेषु शास्त्रेषु नानाग्रन्थेष्वित्यर्थः । नन्वयं पठितोऽपि साभिष्वङ्गत्वान्न मुक्तिमार्ग इत्याशंक्याह-मार्गप्रतिपित्तिहेतु:-शिवपथाश्रयणकारणं, यश्च तत्प्रतिपतिहेतुः स मार्ग एवोपचारात् । कथमिदिमिति चेद् ? उच्यते हंदीत्युपप्रदर्शने विनेयानुगुण्येन= शिक्षणीयसत्त्वानुरूप्येण, भवन्ति हि केचित् ते विनेया ये साभिष्वङगानुष्ठानप्रवृताः सन्तो निरभिष्वङ्गमनुष्ठानं लभन्ते । इति गाथाद्वयार्थः ।। २९ ।। एएसु वट्टमाणो भावपवित्तिए बीयभावाओ सुद्धासयजोगेणं अणियाणो भवविरागाओ ॥ ४१ ॥ विसयसरुवणुबंधेहिं तह य सुद्धं जओ अणुट्ठाणं । णिबाणगं भणियं अण्णेहिवि जोगमगंमी ॥ ४२॥ एयं च विसयसुद्धं एगंतेणेव जं तओ जुत्तं । आरोग्गबोहिलाभाइपत्थणाचित्ततुल्लंति ॥४३॥
अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी प्रवर्तते ततोऽन्याय्यान्येतानीत्याशंकापरिहारार्थमनिदानतामेषु प्रवृत्तस्य दर्शयन्नाह-एतेष्वनन्तरोक्ततपस्सु प्रवर्तमानोव्याप्रियमाणो जीवः ‘एतेसुं बहुमाणा' इति पाठान्तरं व्यक्तं च, कया? भावप्रवृत्त्याबहुमानसार-क्रियया अनिदान इति योगः | कुत इति ? आह-बीजभावात्-बोधिबीजविकलस्य देहिनो बोधिबीजभवनेन, एतदेव कथमिति? आह शुद्धाशययोगेन =शुभाध्यावसायसंबन्धेन, शुभाध्यवसायाद्धि बोधिबीजं स्यात् अनिदानो-निदानरहितः स्यात्, तथा भवविरागात्-संसारनिर्वेदात्, यत् किल भवबिरागादिनिमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव, भावविरागादिहेत-वश्चोक्ततपांसि केषांचिदतो निर्निदानानि ।। इति गाथार्थः ।। ४१ ।।
निर्निदानत्वादेवैतेषां निर्वाणांगतामाचार्यान्तरमतेनापि दर्शयन्नाह-विषयोगोचर उक्ततपसामालंबनीयस्तीर्थकरनिर्गमादिः स्वरूपं-उक्ततपसामेव स्वभाव आहारत्यागब्रह्मचर्यपूजासाधुदानादिलक्षण: अनुबन्धश्च-तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरूपानुबन्धेषु, तथाचेति समुच्चये, शुद्धं-निरवद्यं यतो
(१०६)