________________
इत्थम्=इदंप्रकारम् चकारः पूर्वोक्तभावनार्थः एतदनुष्ठानभेदलक्षणं वस्तु यतो=यस्मात् प्रोक्तम् सामान्येनैव न तु चरमाऽचरमावर्त्तभेदमपेक्ष्य पञ्चधा - पञ्चभिः प्रकारैः, विषादिकं विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे = पर्यालोचने अत्रैवाऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः ।। १५४ ॥ इदमेव दर्शयति - 4. विषं गरोननुष्ठानं तद्धेतुरमृतं परम् ।
गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः ।। १५५ ।।
विषं-स्थावरजङ्गमभेदभिन्नम् ततो विषमिव विषम्, एवं गरोऽपि योजनीयः परं गरः-कुद्रव्यसंयोगजो विषविशेषः, अनुष्ठानं अनुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः, अमृतमिवामृतममरणहेतुत्वात् । परं प्रकृष्टं गुर्वादिपूजानुष्ठानम् प्रकृतमेव वर्तते । कुत इत्याह अपेक्षादिविधानतः = अपेक्षाया इहलोकपरलोकफलस्पृहानुरूपाया आदिशब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् ।। १५५ ।।
विषादित्वमेव भावयन्नाह -
६.
विषं लब्ध्याद्यपेक्षातो=लब्धिकीर्त्यादिस्पृहा-लक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते कुत इत्याह सच्चित्तमारणात् = परिशुद्धान्तःकरणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद् अतितुच्छलब्ध्यादिस्पृहणात्सकाशात् लघुत्वापादनं लघुभावाधानं तस्मात् । तथा इति हेत्वन्तरभावनार्थः । ज्ञेयमिदं विषमिति || १५६ || दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः ।
एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥ १५७ ॥
७.
विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ।। १५६ ॥
दिव्यभोगाभिलाषेण=ऐहिकभोगनिःस्पृहस्य स्वर्गस्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिण: = मतिमन्तः एतद् = देवापूजाद्यनुष्ठानम् विहितनीत्यैव= सच्चित्तमारणादिरूपयैव, गरं कालान्तरनिपातनात् कालान्तरे=भवभवान्तररूपेऽनर्थसम्पादनाद् । आत्मनः किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति ।। १५७ ।।
अनाभोगवतश्चैतदननुष्ठानमुच्यते ।
सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥ १५८ ॥
अनाभोगवतश्च= इहलोकपरलोकयोरपि संमूर्छ नजतुल्यप्रवृत्तितया क्वचिदप्रणिहितमनसः पुनः पुंसः एतद् = गुरुदेवपूजाद्यनुष्ठानं तथाविधसमुदया(८८)
८.
दिवशाद्विधीयमानमपि अननुष्ठानमुच्यते=अनुष्ठानमेव न भवतीत्यर्थः । कुत एतदित्याह सम्प्रमुग्धं=सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहमनध्यवसायामात्ररूपमापन्नं मनः-अन्तःकरणं अस्य- अनाभोगवतः 'इति' पादपरिसमाप्तौ । यत एवं ततश्च मनःसम्प्रमोहादेव हेतोः एतत्प्रागुक्तम् यथोदितं = यथा निरूपितं तथैवेति ।। १५८ ।।
९
एतद्रागात्-सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः = कारणम् श्रेष्ठोऽवन्ध्यो वर्तते एतद्योगविदो विदुः=जानते, कस्य हेतुरित्याह सदनुष्ठानभावस्य=तात्त्विकदेवपूजाद्याचारपरिणामस्य। कुत इत्याह शुभभावांशयोगतः = मुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसंगमात् ।। १५९।।
१०.
जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगर्भमत्यन्तममृतं मुनिपुङ्गवाः ।। १६० ।।
जिनोदितं-जिननिरूपितं 'इति तु’= अनेनैवाभिप्रायेण विधीयमानं आब्रुव भावसारं=शुद्धश्रद्धा-प्रधानम् । अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसंज्ञम् मुनिपुङ्गवाः= गौतमादिमहामुनय इति ॥ १६० ॥
अथ प्रस्तुतमेवाधिकृत्याह -
एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् ।
पुद्गलानां परावर्ते गुरुदेवादिपूजनम् ।। १६१ ।।
एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः ।
सदनुष्ठानभावस्य शुभभावांशयोगतः ।। १५९ ।।
११.
एवं चा-ऽस्मिंश्चानुष्ठानपञ्चविधत्वे स्थिते सति कर्तृभेदेना-ऽनुष्ठातृविशेषेण चरमेऽपश्चिमे अन्यादृशं मुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजनाद्विलक्षणम् स्थितं-प्रतिष्ठितम् पुद्गलानां परावर्ते गुरुदेवादिपूजनमुक्तरूपमेवेति II १६१ ।
१२.
यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः । तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ।। १६२ ।।
यतः- यस्मात्कारणात् विशिष्टो विलक्षणः कर्ता-देवपूजनादिनाम् अयंचरमावर्तवर्त्ती जन्तुः तदन्येभ्यः प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः, नियोगतो - नियमेन ।
(९०)