________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
যুবিলা
त्रिलोकीसुभगं वीक्ष्य, त्वां चलाया अपि प्रभो ! । स्तम्भ-स्वेदाता भावो, जायते कस्य नो दृशः ? ॥५॥ शमाई सुकृताऽऽख्याती, भवभ्रान्तिभवं मम । त्वत्पाद पादपच्छाया तापं निर्वापयेच्चिरात् ॥६॥ तच्चित्रं यन्निरालम्ब, चिरं भ्रान्तं भवार्णवे । त्वां चाऽऽलम्ब्य मनो मेऽद्य, शमनीरे ममज्जयत् ॥७॥ धर्मकोशाद्धनं दत्ते, सेवकेभ्यः प्रभु भवान् । प्रसन्नः समता वस्तु, कस्मैचन पुनर्निजम् ॥८॥ तथा मम जगन्नाथ !, प्रसीद नतवत्सल ! । यथा क्षणमपि स्वामिन् !, नैवोत्तरसि चेतसः ॥९॥ सर्वोऽपि वदति श्राद्धो, यत्त्वं मे नाथ ! जीवितम् । नाहं तु जीवितं येन, चलं मे त्वं तु निश्चलः ॥१०॥ न कुले न बले रूपे, न च श्रीषु न ते विभोः । यत्किञ्चद्वीतरागत्वं, तत्र लीनं मनो मम ॥११॥ नानानामानि सङ्कल्प्य, विवदन्तां विचक्षणाः । मन्दमेधा स्त्वहं नाथ ! नीरागत्वे तव स्थितः ॥१२॥ विकल्पकल्पनालोल, कल्लोलै थि ! रक्ष मे । धूयमानं मनःपोतं, यत्तरामि भवाम्बुधिम् ॥१३॥
वपुः शस्तं प्रसन्नाः दृग, जन्तु-रक्षाकरं वचः । अतस्तवयि कथं नाथ !, सतां न रमते मनः ॥१४॥
भ्रमन्तु भावाः प्रस्तावात् , इतरे तारका इव । सर्वज्ञ ! तव तत्त्वाद्रौ ध्रुवीयति मनस्तु मे ॥१५॥ अलं परिग्रहै रम्यै, रपि क्लेशकरैः प्रभो । सदाऽऽनन्दमयं देहि, भावदेव ! प्रियं पदम् ॥१६॥
For Private And Personal Use Only