________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
युगादिवन्दना
नव्योद्वाहविधौ वधू-द्वय-युतं, पुत्रं सवित्री रती, प्रीत्या सन्निमिव स्मरं किल ददौ, यं विज्यसत्याशिषम् । कल्पद्रुः किल जङ्गमः किमधुना, पत्रद्रयेनोद्गत, स्तत्वं स्याः शतशाख इत्यनुदितं, स श्रेयसे नाभिभूः ॥११॥
[ अनुष्टुपवृत्तम् ] आदिनाथ ! जगन्नाथ ! शरणागत-वत्सल !। नमामि नाथ ! सर्वज्ञ ! भूयो भूयो नमाम्यहम् ॥१॥ आर्त्तानां भुवि लोकानां, भक्त्याऽऽधीनस्त्वमत्र वै ।। सन्ततं कृपया स्वामिन् ! प्रादुर्भवसि भूतले ॥२॥ तत्त्वतो रादिरेव त्वं, लोकाऽनुग्रह काम्यया । आदिनाथाऽभिधो लोके, मारुदेवीसुगर्भजः ॥३॥ नाभिराज सुनो ! देव ! ख्यातो जन्मी महागुरुः । लीलया दर्शयन् सर्व, लोकानन्ते त्वमेव हि ॥४॥ सर्वदा विद्यमान स्सन् , केवली नामतो ननु । मिथ्या-ज्ञान-विनाशाय, भगवन् ! त्वं करुणां कुरु ॥५॥ मुक्तये जगतां नाथ ! जगत्यां भवतारक ! । नानानामधरो देव ! त्वमेव पूज्यसे जनैः ॥६॥ सुभक्त्या तव लोकानां, विचित्राः श्वित्त-वृत्तयः । अतो नेक स्त्वमेकोऽपि, भज्यन्ते यत्र कुत्रचित् ॥७॥ भेद-भावं परित्यज्य, ये जनाः पर्युपासते ।। त एव सफला नित्यं, कृतकृत्यास्त एव हि ॥८॥ मङ्गलं मङ्गलार्थी च, जयार्थी लभते जयम् ! । कामार्थी लभते कामान् तत्तदर्थी मनोगतम् ॥९॥ विद्यार्थी लभते विद्या, धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रं, मोक्षार्थी लभते गतिमू ॥१०॥ जपेवृषभ सुस्तोत्रं, षड्भिर्मासैः फलं लभेत् ।। संवत्सरेण सिद्धिं च, लभते नात्र संशयः ।।११।।
For Private And Personal Use Only