________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्पनानि
[ उपेन्द्रवज्रावृत्तम् ] को पाश्वैस्थौ वनभुवि युवां, सेवको नाभि-सूनोः ? किं निःसङ्गाः फलतु युवयोः ? गच्छत्वं गच्छ न त्वम् । इत्थं कुद्धयन्-नमि विनमि वाग् , लजया नाग-भर्तुः, किश्चिन्मौन स्मितसवलितं, वीक्षितं पातु युष्मान् ॥६॥
[ स्रधरावृत्तम् ] भउक्तु पञ्चाऽऽशु पचा, शुग सुभट शरान्, पञ्चमुख्यव्रतश्रीक्रीडा सौख्यान्यवाप्तु, सममिव समितीः पञ्च संसेवितुं वा । आसीद्यः पञ्चमूर्ति, नमिविनमि धृतो-र्वासिधारा चतुष्कक्रोडान्सः कान्तकायः स हरतु दुरिता, न्यादि-तीर्थकरो वः ॥७॥
[ शार्दूलविक्रीडितम् ] यं शैवा समुपासते 'शिव' इति, 'ब्रह्मेति वेदान्तिनो, वौद्धा 'बुद्ध' इति प्रमाणपटवः 'कतें'ति नैयायिकाः । अर्हन्नित्यथ जैन-शासन-रताः 'कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छित फलं, श्रीनाभिसूनुर्जिनः ।।८।।
[ इन्द्रवज्रावृत्त्म् ] दद्यान्मुदं सर्व-समान-बुद्धि, जंगद्गुरुर्नाभि-नरेन्द्र-सूनुः । उपार्जितं ज्ञान-महा-निधानं, दत्तं कुटुम्बाय विभज्य येन ॥९॥
[शार्दूलविक्रीडीतम् ] धन्यात्वं मरुदेवि ! तीर्थकृदयं, यस्याः सूनुत्वीहशो, निन्द्याः सुरनायिका अपि वयं, यासामपत्यं नहि । एनं देहि यथाऽमृतैर्निजवपुः, संश्लिष्य सिञ्चाम इत्यात्तः स्मेर मुखः सुरीभि रभितः, श्री आदिनाथः श्रिये ॥१०॥
For Private And Personal Use Only