________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सायनानि
[ वसन्ततिलकावृत्तम् ] श्रीहीरसूरिकुलकौस्तुभसूरिवर्य,
श्रीमद्धिमाचल-सतीर्थ्य-गुमाननूत्या । पूत्यासदा पठितया ननु 'भव्य' वाण्या,
सुप्रीणितो जगति सत्वरम् आदिनाथः ॥१२।।
२२
निरुपधि वैभवकर वै भवकर वैरिच्छिदे युगादीशम् । विगतधनमोहमाये नमोहमाये शिवस्य रसिकस्ते ॥१॥ वाणी वरला भवतो वरला भवतो विशुद्धगतिचरणा । गुण-गण-सज्जनकमलं, सज्जनकमलं विभूषयति ॥२॥ तव पुरतः केवलिनः केवलिनः कामकारणं विषयाः । यत्त्वं वाक्-पर महसा परम- हसाऽर्ह व्यधामोहम् ॥३॥ धृतिपरमोदकसरसा मोदक सरसा गमोर्भिभूताभवता । विघटितमानसमस्तं मानसमस्तं मलमनादि ॥४॥ यदि दित परमतमोहं परमतमोहंतु ते श्रुतं वचनम् । तम्मे न व्याकरणे नव्याकरणेऽपि भारते प्रीतिः ॥५॥ विदलितमाय तवेडातमाप्य तवेडातमाप्य तरति जनः । विपुलायामां तरसा यामान्तर सार भव सरितम् ॥६॥ दुरितराजसभावं राजसभावन्द्य ते श्रुतमधीत्य । अपृणामाऽशान्त रसाः शान्त रसास्वादने सुचिरात् ।।७।। यर्हि तमोऽसमवासर ! सभवांसरदुपरमं भवाँस्तर्हि । यामाप मुदं भरतोऽदम्भरतो वेदकोऽन्थस्ताम् ॥८॥ अपवारण सङ्गरतो रण सङ्गरतो जनस्त्वया शममितः । तत्संसदि चतुरानन ! चतुरा न न वर्णयन्ति त्वाम् ॥९॥ नोद्धरसि किमु निरअन ! मुनिरञ्जन! मां भवाऽटवीपतितम् ।। असदुन्मादेकमना देकमना यत्त्वयि जनोऽयं ॥१०॥
For Private And Personal Use Only