________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदा त्वदर्शनं लेभे दूरीभूत ( भयोस्तदा ) | तिर्यग्नरक दुर्गत्योः, स्वप्नेऽपि
व्यरमद्भयम् ||७|| किल ।
त्वङ्घर्माप्तितः पूर्व-मनुत्पन्नमयोः देवमान (व) सद्गत्योः, न वासं कः समीहते ? ॥८॥ इत्येकवचनान्यपद-द्वित्वोक्तिभिः स्तुतो वृषभः । देवोऽबु' दगिरि-मौलिः कलयतु लीलां मनोऽन्तमें || ९ ||
For Private And Personal Use Only
युगादिवन्दना
१६ [शार्दूलविक्रीडितम् ]
भव्याम्भोज - विकास - वासरमणि चिन्तार्थ - चिन्तामणि, श्रीमन्नाभिनरेन्द्र-वंश - विमलाऽलङ्कारमुक्ताफल्म् । कल्याणाssवलि - वल्लि - पल्लव-घनं, पापोष्म सच्चन्दनं,
स्तोष्य भक्तियुतोऽहमादिम जिनं माहेभ पञ्चाननम् ॥१॥ संसाराम्बुधि-मज्जतां भवभृतां पोतस्त्वमेव प्रभो !,
त्वं कारुण्यनिधिर्भवाचल पविः कल्पद्रुमो देहिनाम् । त्वं दुःखौध विनाशकः रामसुधा, धारो धरित्रीविभुः,
प्रोद्यभावयुतो ममाऽसि भगवन् ! भूयास्सदा प्रीतये ||२|| त्वं माता जनकस्त्वमेव सुगुरु-बन्धुस्तथा त्वं मम,
त्वं स्वामी किल दुःखिताऽखिल जने, वात्सल्यदस्त्वं जिन ! त्वं संसारसमुद्र तारण तरी प्रायः प्रियः प्राणिनाम्,
,
त्वं श्री सिद्धि वधू वरो मयि जने दुःखक्षयं त्वं कुरु ॥३॥ रागद्वेषमहारिभिः प्रमथितो मायामहा धूर्तितः,
स्वामिंस्त्वां शरणाश्रितोऽस्मि जनता, हर्षप्रकर्ष प्रद । । तन्मे देहि धियं यथा न भवति त्वद्वैरिणां सङ्गम
स्तेन स्यां शिवसौख्यभाजनमहं त्वत्तः प्रसादात् सदा ||४||