SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि नाथ ! त्वं प्रथमो नृपः समभवो भिक्षाचरोऽपि क्रमातु, तीर्थेशः प्रथमो विभुश्च भविनां मोक्षक संसाधकः । यत्पुत्रो भरताधिपः प्रथमतः सञ्चक्रवत्तिस्तथा, यन्माता प्रथमं गता शिवपदं, सोऽस्तु प्रमुर्भूतये ॥५॥ श्री मंस्त्वत्प्रद पद्मयो मम मनो भृङ्गे-भ्रमन् स्वेच्छया, श्रीसर्वज्ञ ! कदा रमिष्यति सदा, रामारमा-निस्पृहः । तत्त्वं नाथ ! सनाथतां मयि कुरु प्रक्षीण पापोदये, त्रायन्ते किल वत्सलाः श्रितजने स्वामिन् ! महान्तौ क्षितौ ॥६॥ धन्यः कोऽपि वासरो शुभमयो, यामः स एव क्षणः, सोऽपि सौख्यकरो स्वभावमधुरो, यस्मिन्मुदा दृश्यते । जानेऽहं तव पाद पद्म पुरतो तिष्ठेचिदानन्दभाक, ___नांसा न्यस्तसुलोचनः करयुगं संयोज्यसौख्यंश्रितः ॥७॥ विघ्न ब्रात महेभ-दर्पदलनो मुक्यङ्गना कामुकः, शुद्धध्यान विधान निर्जितमहा, मोहान्धकारावलिः । विश्व व्यापि महा प्रभाव भवनं भव्यैः समासादितं, श्रीमनादिजिनेश्वरः प्रफुरुतां सौख्यं मनोवाञ्छितम् ॥८॥ [स्रग्धरावृत्तम् ] इत्थं दुष्टाष्टकर्माऽपगत कलिमलः केवलाऽऽलोक-युक्तः, कारुण्याम्बुप्रवाहः प्रवर गुणगणाऽऽधोर धौरेयमुख्यः । श्रीमत्स्याद्वादविद्या जलधिशशिकरो ज्ञात-तत्त्व-प्रमेयः, प्राज्यं सौख्यं करोतु प्रथमजिनपतिः संस्तुतः शुद्धभक्त्या ।।७।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy