________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि..
[ अनुष्टुपयत्तम् ] शत्रुञ्जयः पुण्डरिकः, सिद्धिक्षेत्रं महाचलः । सुरशैलो विमलाद्रिः, पुण्यराशिः श्रियः पदम् ॥१॥ पर्वतेन्द्रः सुभद्रश्च, दृढशक्ति-रकर्मकः । मुक्तिगेहं महातीर्थं, शाश्वतः सर्वकामदः ।।२।। पुष्पदन्तो महापद्म, पृथ्वीपीठं प्रभोः पदम । पातालमूलं कैलासं, क्षितिमण्डलमण्डनम् ॥३॥ शतमष्टोत्तरं नाम्ना-मित्याद्युक्तममुष्य हि । महाकल्पे विजानीयात् , सुधर्मोक्त्ये' ति शर्मदम् ॥४॥ नामान्यमूनी यः प्रात-पठत्याकर्णयत्यपि । भवन्ति सम्पदस्तस्य, व्रजन्ति विपदः क्षयम् ॥५॥ तीर्थानामुत्तमं तीर्थं, नगानामुत्तमो नगः । क्षेत्राणामुत्तमं क्षेत्रं, सिद्धादिरयमीरितः ॥६॥
श्री ऋषभजिनेन्द्र स्तोत्रम्
[वंशस्थवृत्तम् ] जयश्रियाम् एकपदं यदीयं, बभूव राज्यं जगतां सुखाय । विभक्तये च व्रतकेवलश्रीः, श्रीमयुगादीशमिमं स्तवीमि ॥१॥ हितानि कुर्वन् पितरत्यनिन्दितो, य एव धर्मो जगतामपि स्फुटम् ।। सूतेऽमुष्याऽपि च यः पितामहो, मतः पुराणं पुरुषं स्मराम्यहम् ॥२॥ यतः स्म सर्वा प्रभवन्ति नीतयो, जनानुगा मुक्तिपथानुगा अपि । घनाघनौघादिव सर्वतो लता, स्तमादिमं देव मुपास्महे विभुम् ॥३॥ गृहीतिनां कर्मसु न स्फुटेष्वपि, स्वभावशुद्धाऽऽर्जव भक्ति शालिनाम् । बभूव शास्ता वृषभप्रभुः पुरा, येषां समस्तानपि युग्मीनो जनान् ॥४॥
For Private And Personal Use Only