________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगा दिवन्दर
भव्या जना-स्तव विभो ! शरणं प्रपन्ना
स्तीर्वाऽपमृत्यु-मनघाः शिवशर्मभाजः । रेजुः समस्तधरणीधवपूज्यपादः,
श्रीअर्बुदाचलवसवृषभं स्तवीमि ॥७॥ आदिप्रभो ! तव पदाब्जमहं प्रणम्य,
मुक्तोऽस्मि संसृतिभयाद् अखिलात् सुखेन । नाऽतः परं मम भयं भवजातदुःखा
च्छीअर्बुदाचलवसवृषभ स्तवीमि ॥८॥
श्री शत्रुञ्जयगिरिस्तोत्रम्
(उपजातिवृत्तम्) शत्रुञ्जयो नाम नगाधिराजः सौराष्ट्रदेशे प्रथितः प्रशस्तिः । तीर्थाधिराजो भुवि पुण्यभूमिस्तत्रादिनाथं शिरसा नमामि ॥१॥ अनन्ततीर्थाधिपसाधुवृन्दैर्या सेविता शान्तितपाभिवृद्धयै । सा पुण्यभूमिर्वितनोतु सौख्यं, जिनादिनाथं शिरसा नमामि ॥२॥ अनेकराज्याधिपमन्त्रिमुख्यै-विनिर्मिता सुन्दरचैत्यपंक्तिः । स्वर्भूमितुल्या भुवि सुप्रसिद्धा, तत्रा-दिनाथं शिरसा नमामि ॥३॥ विश्रामधामोमुनिसाधकानां, संसारतापै-हंतसाधकानाम् । यो यानतुल्यो च भवाऽपमार्गे, तमादिनाथं शिरसा नमामि ॥४॥ या पादपद्मैः पुनिता सुभूमि-रनन्तयोगीमुनिभिनितान्तम् । आकर्षणं चुम्बकरत्नतुल्यं, तत्रा-दिनाथं शिरसा नमामि ||५|| निसर्गरम्योदितनाकतुल्या, गिरीन्द्रसौगन्धितवृक्षराजिः । बिचित्रवर्णैः सुमनोहरा च, तत्रादिनाथं शिरसा नमामि ॥६॥ शचीन्द्रदेवैः परिवेष्टिता च, नृत्यन्ति शृङ्गारभृताः सुभक्त्या । कुर्वन्ति वृष्टिं मधुगन्धपुष्पै स्तत्रा-दिनाथं शिरसा नमामि ॥॥ स्वजीवितं पावनतामुपैति, ये पूजयन्ति प्रभुपादयुग्मम् । श्रीनाभिपुत्रं प्रथमं जिनेन्द्रं, युगादिनाथं शिरसा नमामि ।।८।।
For Private And Personal Use Only