________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तकमाथि
[ वसन्ततिलकावृत्तम् ]
भक्तार्त्तिनाशनकर विशदप्रभावम् ,
भक्तामरसुरनरेन्द्रनतक्रमाजम् । संसारसिन्धुतरणोत्तमपोतकल्पम् ,
श्रीअर्बुदाचलवसवृषभं स्तवीमि ॥१॥ ध्यानस्थितं मुनिवरा वचनं त्वदीयम्,
हृद्गोचरं प्रविधुः समशीलवन्तः । ते मोक्षसिद्धिवशगा वशिनो बभूवुः,
श्रीअर्बुदाचलवसद् वृषभं स्तवीमि ॥२॥ विध्नानि यान्ति विततानि तव प्रभावा
नाशं विभो! जगदनन्यहितानुबन्धिन् । सर्वार्थदाननिपुणो न विभुत्वदन्यः,
श्रीअबुदाचलवसद्वृषभं स्तवीमि ॥३॥ स्तोत्रप्रिया नरगणा भवशान्तिकारम् ,
सौम्य प्रभो ! तव महागुणराशिमाशु । चित्त विभाव्य भवभीतिपराङ्मुखाः स्युः,
श्रीअबुदाचलवसवृषभं स्तवीमि ॥४॥ संसारतापविधुराः परिणामसिद्धा.
स्तद्धेतुरत्र भवतचरणाश्चऽनुपातः । कस्त्वत्प्रभावविमुखो गुरुसङ्गरक्तः,
श्रीअबुदाचलवसवृषभं स्तवीमि ॥५॥ को बुद्धिमान्विदित्भूरिगुणप्रतापम् ,
____स्वल्पाणुकल्याणधाम विभवं जुषते विहाय । कालान्तककमगतोऽपिभवान्तकारिन् !
श्री अर्बुदाचलवसद्वृषभं स्तवीमि ॥६॥
For Private And Personal Use Only