________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यभाव तमोरुद्वद्दष्टे दिष्टया मम प्रभो ! | सूर्येन्द्रोरुदयो भूयात्, स्वविभादर्शितत्वयोः ||५| जन्मस्नात्रमहानन्द - पदलाभार्हितत्वयोः ।
अष्टापदाद्रयो केषां न सतां निविशते मनः || ६ ||
युष्कत्पदैकवचनान्यपदद्विवचनवचोविरचनेन । स्तुत इसि मया प्रदेयाः प्रवचनचातुर्यमाद्याऽर्हन् ||७||
For Private And Personal Use Only
युगादिवन्दमा
६
[ उपजातिवृत्तम् ]
श्रेयोलतापल्लवनैकनीरदं, त्वां देहिनां देव ! भवाब्धितीरदम् । आदिप्रभो ! भक्तिभरेण भूरिणा स्तवीमि सेव्यं पूरुहूतसूरिणा ॥१॥ मूर्त्ति तवेनेन्दुकला विलासिनी, विलासिनी मुक्तकुमुन्महोदयम् । महोदयं वादिशते वितन्वती, वितन्वती वा शुभमत्र पावनी ||२|| त्रपावनीमापितवान् हिमालयं, हिमालयं शुभ्रयशोवितानतः । वितानतः स्वर्गिगणिः कलाधरः, कलाधर स्तारय मां भवापदः ||३|| भवाऽपद प्राणिहिता सदाऽऽपदाम् सदा पदाम्भोजनमन्नरामहः । नराऽमहस्यालकदुःखतापनः, खतापनः शकजप्रबोधने ||४|| प्रबोधने तस्तवदीप्रशासनं, प्रशासनं प्राप्य कुवादिनोदयम् । दिनोदयं मोहनिशि प्रभो ! भवं, प्रभोऽभवं सिद्धसमाहितोऽधुना ||५|| हितो धुनानो जगतो दुरापदं, दुरापदं सद्विषतो विमोहन ! | विमोहनम्रामर ! हे विभो ! भवे, विभो ! भवेन्मे शरणं सदा भवान् ||६|| सदा भवान्ताहित शं मयाऽमुना, मयाऽमुना, त्वं स्तुतिमापितः प्रगे । पितः प्रगेयो रुगुणैरमामना, रमा ममा घेहि महोदयोद्भवाः ||७||