________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तुतयः
-
-
ते यच्छन्तु जिनेश्वराः शिवसुखं, त्रैलोक्यवन्द्यक्रमाः,
__ ये भव्यक्रमहारिणोऽसमयशोभावर्द्धना: कामदाः । तन्वानानवमङ्गलान्यनवमाः, श्रीसंघलोके सदा,
ये भव्यक्रमहारिणोऽसमयशोभा वर्द्धनाः कामदाः ॥२॥ श्रीसार्वप्रभवा भवस्य विभवद्भावारिभेदे भृशम्,
गीर्वाणप्रखराऽसतां प्रतनुता मत्यन्त कोमा सुहृत् । पापव्यापहरा धुताऽधिनिकरा, सन्धीकराऽमोदिता
द्गीर्वाण प्रखरा सतां प्रतनुतो,-मत्यन्तकामासुहृत् ॥३॥ देयांच्छं श्रुतदेवता भगवती, सा हंसयानासना,
नालीकालयशालिनी तिकलितापाऽयाऽपहारक्षमा । धत्ते पुस्तकमुत्तमंनिजकरे, या गौरदेहासदा, __ नाऽली कालयशालि नीति, कलिताऽपायापहारक्षमा ॥४||
[शालविक्रीडितम् । ऐन्द्रव्रातनतो यथार्थवचनः, प्रध्वस्तदोषो जगत् ,
सद्यो गीत महोदयःशमवतां, राज्याऽधिकाराजितः । आद्यस्तीर्थकृतां करोत्विह गुणश्रेणीर्दधन्नाभिभूः,
सद्योगीतमहोदयःशम्-अवतां राज्याऽधिका राजितः ॥१॥ उद्भूताप्रतिरोधबोधकलितत्रैलोक्यभावव्रजा
स्तीर्थे शस्तरसा महोदयभयाऽकान्ताः सदा शापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा-,
स्तीर्थोशस्तरसा महोदयभयाः कान्ताः सदाशापदम् ॥२॥ x महोपाध्यायश्रीमदयशोविजयजीप्रणीता.
For Private And Personal Use Only