________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यवन्दनानि
१३+ [ भुजङ्ग प्रयातम् ]
चिदानन्दलीला रसास्वादलीनं, गुणैः सिद्धिभाजामनन्तैरहीनम् ।
मुदा सर्वदा युगादीशदेवं, स्तुवेभद्रदायि क्रमाम्भोज सेवम् ॥१॥ गृहस्थे बभाषे कलाशिल्प शास्त्रं, क्रमात्केवली. यश्चधर्मप्रकारम् ।
स एव प्रभुः सर्वलोकोपकारी, न चान्यस्ततो ज्ञान नैर्मल्य धारी ॥२॥
महाशुद्ध सिद्धान्त मध्ये प्रसिद्ध, प्रतीतं पुराणेषु शोभा समृद्धम् ।
गतं वेद वेदान्त शास्त्रेऽवदातं यदीयं चरित्रं नच क्वापि भातम् ॥३॥
अनन्तं पुनन्तं जन भक्तिमन्तं, हरन्तं दुरन्तं प्रमादं स्फुरन्तम् ।
जिनं नाभि भूपाल वंशावसन्तं, श्रये तं शरण्यं शिवाम्भोजहसम् ॥४॥ कलाकेलि सर्वप्रणाशे सुपर्णः सुवर्णापमानोल्लसद्देहवर्णः ।
वृषाङ्कः सुखाकूर मेघः सुरम्यं, युगादीश्वरो मे प्रदत्तां सुसाम्यम् ।।५।।
१४४
[ द्रुतविलम्बितम् ]
ऋषभदेव जिनेश कृपानिधे, ! प्रथम तीर्थ पते गुण वारिधे ।
प्रणतपाल ! शुभड्कर ! सद्विधे : कुरु कृपामधुना महिमोदधे ! ॥१॥ + श्री शीलरत्न सूरि प्रणीतम् x श्री यतीन्द्र सूरि प्रणीतम्
For Private And Personal Use Only