________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
युगदिवन्दना
स्त्रीणां शतानि शतशो जनयंति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मिं, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनं ते मुनयः परमं पुमांस, मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयंति मृत्यु, नान्यः, शिवः शिवपदस्य मुनींद्र पंथाः ।।२३ त्वामव्ययं विभुमचिंत्यमसंख्यमाद्य, ब्रह्माणमीश्वरमनंतमनंगकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदंति संत; ॥२४॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् , त्वं शंकरोसि भुवनत्रयशंकरत्वात् । धातासि धीर शीवमाविधेर्विधानात्, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि॥२५॥ तुभ्यं नमत्रिभुवनातिहराय नाथ, तुभ्यं नम; क्षितिजलामलभूषणाय । तुभ्यं नमत्रिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधिशोषणाय ॥२६।। को विस्मयोऽत्र यदि नाम गुणैरशेषै, स्त्वं सं श्रेतो निरबकाशतया मुनीश । दोषैरुपात्त विविधाश्रय जातगर्वैः, स्वप्नांतरे प न कदाचिदपीक्षितोसि ॥२७|| उच्चैरशोकतरुसंश्रितमुन्मयूख, माभाति रूपममलं भवतो नितांतम् ।। स्पष्टोल्लसरिकरणमस्ततमोवितान, बिंबं रवेरिव पयोधरपार्चवर्ति ॥२८॥ सिंहासने मणिमयूखशिखाबिचित्रे, विभ्राजते तव वपुः कनकावदातम् । बिंब वियद्विलसदंशु-लतावितानं, तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ कुंदावदात-चलचामरचारुशोभं, विभ्राजते तव वपुः कलधौतकांतम् । उद्यच्छशांकशुचिनिर्झरवारिधार, मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्रत्रयं तव विभाति शशांककांत, मुच्चै; स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥ उन्निद्रहेमनव-पंकजपुंजकांति, पर्युल्लसन्नाखमयूख शिखाभिरामौ । पादौ पदानि तव यत्र जिनेद्र धत्तः, पद्मानि तत्र विबुधाः परिकल्पयंति ॥३२॥
For Private And Personal Use Only