________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
१२७
इत्थं यथा तव विभूतिरभूज्जिनेंद्र, धर्मोपदेशनविधौ न तथा परस्य । याहक प्रभा दिनकृतः प्रहतांधकारा, ताहक्कुतो ग्रहगणस्य विकाशिनोपि ॥३३॥ श्वथोतन्मदाविलविलोलकपोलमूल, मत्तभ्रमभ्रमरनाद विवृद्धकोपम् । ऐरावताभ मभमुद्रतमापतंतं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ भिन्ने भकुंभगलदुज्ज्वलशोणिताक्त, मुकाफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामतिक्रमयुगाचलसंश्रितं ते ॥३५॥ कल्पांतकालपवनोद्धतर्वाह्रकल्पं, दावानलं ज्वलितमुज्ज्वलमुत्फुलिंगम् । विश्वं जिघत्सुमिव संमुखमापतंतं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ रक्तक्षणं समदकोकिलकंठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतंतम् । आक्रामति क्रमयुगेन निरस्तशंक, स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ वल्गत्तुरंगगजगर्जितभिमनाद, माजौ बलं बलवतामपि भूपतीनाम् ।। उद्यद्दिवाकरमयूखशिखापविद्ध त्वत्कीर्तनात्तम इवाशुभिदामुपैतेि ॥३८॥ कुंताग्रभिन्नगजशोणितवारिवाह, वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा, स्त्वत्पादपंकजवनायिगो लभंते ॥३९॥ अंभोनिधौ क्षभितभीषणनकचक्र,-पाठीनपीठभयदोल्बगवाडवानौ । रंगत्तरंगशिखरस्थितयानपात्रा, स्त्रासं विहाय भवतः स्मरणाद् व्रांत ॥४०॥ उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां दशामुपगताश्चयुतजीविताशाः । त्वत्पादपंकजरजोमृतदिग्धदेहा, मा भवंति मकरध्वजतुल्यरूपाः ॥४१॥ आपादकंठमुमशंखलवेष्टितांगा, गादं बृहन्निगडकोटिनिघृष्टजंघाः । त्वन्नाममंत्रमनिशं मनुजाः स्मरंतः सद्यः स्वयं विगतबंधभयाभवन्ति ॥४२॥ मत्तद्विपेन्द्रमृगराजदवानलाहि, संग्रामवारिधिमहो दर बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रजं तव जिनेंद्रगुणैर्निबद्धां, भक्त्या मया रुचिरवर्ण विचित्रपुष्पाम् । धत्ते जनो य इह कंठगतामजस्र, तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥
इति भक्तामरनामकस्तोत्रं सप्तमं स्मरणम् ॥९॥
For Private And Personal Use Only