________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
दृष्टवा भवंतमनिमेषविलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युतिदुग्ध सिंधोः, सारं जलं जलनिघेरशितुं क इच्छेत् ॥११॥ यैः शांतरागरुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैकललामभूत । तावंत एव खलु तेप्यणवः पृथिव्यां, यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि, निःशेषनिर्जितजगत्रितयोपमानम् । बिंबं कलंकमलिनं क्व निशाकरस्य, यद्वासरे भवति पांडुपलाशकल्पम् ।।१३।। संपूर्णमंडल शशांककलाकलाप, शुभ्रागुणात्रिभुवनं तव लंघयंति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम् ।।१४।। चित्रं किमत्र यदि ते त्रिदशांगनाभि, नीतं मनागपि मनो न विकारमार्गम् । कल्पांतकालमरुता चलिताचलेन, किं मंदराद्रिशिखरं चलितं कदाचित् ।।१५।। निधूमवर्त्तिरपवर्जिततैलपूरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुता चलिताचलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ।।१६ नास्त कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगंति । नांभोधरोदरनिरुद्धमहाप्रभावः, सूर्यातिशायिहिमासि मुनोंद्र लोके ।।१७।। नित्योदयं दलितमोहमहांधकार, गम्य न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकांति, विद्योतयज्जगदपूर्वशशांकबिंबम् ॥१८॥ किंशर्वरीषु शशिनाह्नि विवस्वता वा, युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ । निष्पन्नशालिवनशालिनि जीवलोके, कार्यकियज्जलधरैर्जलभारनम्रः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । कि वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्भनो हरति नाथ भत्रांतरपि ।।२।।
For Private And Personal Use Only