________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। अथ भक्तामरनाम स्तोत्रम् ॥
भक्तामरप्रगतमौ लमणिप्रभागा, मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रगम्य जिन पादयुगं युगादा, बालंबनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङ्नयतत्त्ववोधा, दुद्भूत बुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितय चित्तहरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेंद्रम् ॥२॥ बुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितामिदुबिंब, मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुणसमुद्रशशांककांतान , कस्ते क्षमः सुरगुरुप्रतिमोपि बुद्धया । कल्पांतकालपवनोद्धननकचक्रं, को वा तरीतुमलमंबुनिधिं भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश, कनु स्तवं विगतशक्तिरपि प्रवृत्तः । प्रोत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति, तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ त्वत्संस्तवेन भवसंततिसन्निबढे, पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रांतलोकमलिनीलमशेषमाशु, सूयींशुभिन्नमिव शार्वरमधकारम् ॥७॥ मत्वेति नाथ तव संस्तवनं मयेद, मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्यतिमुपैति ननूदबिंदुः ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोष, त्वत्संकथापि, जगतां दुरितानि हंति । दूरे सहस्त्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकासभांजि ॥९॥ नात्यद्भुतं भुवनभूषणभूतनाथ, भूतैर्गुणैर्भुवि भवंतमभिष्टुवंतः । तुल्या भवंति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
For Private And Personal Use Only