________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगा दिवन्दना
अमुं प्रमथ्नन्ति न ये जडाविलं तवाध्वमन्थेनभ बोदधि बुधः । भवन्ति सर्वेन्द्रियशान्तवेधसो न ते नवीनाऽमृत सम्पदां पदम् ॥११।। निवासमर्हन्ति न ये महोदधे (?) मलीमसा मुक्तिपुरे वपुः स्पृशः । कृता भवप्रामतलेषु ते त्वया विपन्नृपाणां करदाः कुटुम्बिनः ॥१२॥ महाहसां दुर्नयशूरचेतसां विमोहमूर्छालुदृशां च मादृशाम् । शरण्या को नाम सकर्णमानसो ध्रुवं त्वदन्यः शरणं भवे भवेत् ? ॥१३॥ बृहन्न किञ्चिद् गगनाङ्गगात् परं न चापरं मुक्तिपदात् प्रियङ्करम् । न बीजमन्यद् व्यसनस्य कामतः परै न कश्चित् भवतो यथार्थवाक् ॥१४॥ अहंयवो ये किल रोषतोषजैः ः प्रबन्धैरिपुमित्रवर्धिभिः । उपासितैस्तैर्मनसापि मादृशश्विरं त्रपन्ते तव किङका अपि ॥१५॥ वसुन्धरामश्नुवतां नृपार्चिता भवन्तु शास्त्रैरपिसन्तु विश्रुतः । सुखान्मुखे चेत् पथि सोत्सवाः परेतदा भुजिष्यैस्तवमादृशैर्जितम् ॥१६॥ अखण्डिताखण्डलवन्दितश्रिया त्वया त्यजन्तः सहसाम्यविप्लवम् । सुधामयों तामपि मुक्तिभूमिकां मनीषिणो न स्पृहयन्ति चेतसि ॥१७॥ त्रिलोकरक्षाभिरिहाभिमन्त्रितः प्रियङक्राभिस्तव सुक्तिपङ्क्तिभिः । दृढानुबन्धेरपुनग्रहं ग्रहैश्विरं गृहीतोऽपि न कोऽपि मुच्यते ॥१८॥ व्रतं विहाय स्पृहयन्ति ये श्रियं व्रजन्ति ते पूज्यतमा परे दशाम् । त्वया पुनर्देव ! विमुञ्चतां व्रतं स्थितिः प्रक्लप्तामलिनानुरूपिणी ।।१९।। तदेव नास्त्यस्ति तदेव चेत्ययं चलाचलस्ते वचनस्याडम्बरः शिवाय कस्याप्यशिवाय कस्यचिन मुदेऽथ कस्याप्यमुदेऽथ कस्यचित् ॥२०॥ अमुत्र यत् किञ्चितचिन्त्यवैभवं सनातनं शर्म न तत्र साक्षिणः । इहापि गच्छंस्तत्र देव ! वामना भवत्यवाच्यरय न भाजनंजनः । २१||
For Private And Personal Use Only