________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
गुणैकरूपा गपभङ्गशालिनी चकास्ति येयां नव वाक्यवागुरा । स एव दूर बिनियन्त्र्यते न या य एव बन्धौरचिराय मुच्यते ॥२२॥ प्रसीद सीदन्तममुं जगज्जनं नियोजय कापि महार्थकर्मणि । क्षमाभृति त्वय्यपि शासति प्रजामजातदैन्या कथमीश ! नाङ्गिनः ॥२३॥ क्रतुक्रियाभिर्विषयोपदेशनां निशम्य वाचो हदयङ्गमा जनः । विरोधिनीवैषयिकस्य शर्मणः क एव ते सूक्ष्मगिरोऽनुरुध्यते ॥२४॥ विशृङ्खलैोऽमृतपोऽपि लज्जते प्रियाप्रणामप्रभुलैर्विकर्मभिः । परां परेतैरपि यान्ति पूज्यतामहो विमोहान्धलमानसं जगत् ॥२५॥ प्रसादमासाद्य कुतीर्थिनांजन, सलाघवोऽपि धुवमेत्य गौरवम् । तव प्रसादा(न्) न पुनर्मुहुर्मुहुः स गौरवोऽप्यञ्चति लाघवं परम् ॥२६॥ अकल्पवृक्षा विबुधप्ररोहिणी विशीर्णदोषा गुरुराजराजिनी । समुत्थितज्योतिरकृष्णवमिका त्वयि प्रभो! सारतभूरभूदियम ॥२७॥ शुभाशुभं बाहथमथान्तरं भवत्प्रणीतसंवादि विलोकयन्नपि । प्रशान्तिवन्ध्यैर्ग्रहिलाभिरुक्तिभिः प्रतार्यतेपश्यपरैः कथं जनः ॥२८॥ सतां न तत् कौतुकमस्तु विप्लुते यदेष भूयास्तव गौरवोदयः । कृपाद्विषः कामजुषः परां परे यदञ्चितिं यान्ति तदेवकौतुकम् ।२९।। पटूनि चाटूनि कियन्तिकुर्महे महेश ! युष्माकमपारसम्पदाम् । विना न यः शर्म सतां सदोदयं वचोभिरेभिः किल किं न पूर्यते ॥३॥ विघट्यकलुषाणि भूर्भुवः स्वघटय घटां शिवसम्पदामपाराम् । उपनय गुरुकर्ममर्मभेदं नयभावंभोतिमसम्भवामवस्थाम् ॥३॥ माहात्म्य तव परिमातुमीहते यः संख्यातुंजगदणुसञ्चयलोलाः साफल्य तदपि सुमेधसः स्ववाचामाधातुं विदधति ते गुण प्रशस्तिम् ॥३२॥ तां पुण्यपापजयिनी कनकाभिराम चन्द्रांशुपुअविशदामधिगम्य भूमिम् । आत्यन्तिकीमनुभवामि यथा मुदं मे श्रीनाभिनन्दन ! तथा प्रथय प्रसादम् ॥३३॥
For Private And Personal Use Only