________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। श्रीऋषभजिनेन्द्रतस्तवनम् ॥
(इन्द्रवज्रावृत्तम् ) युगादिदेवाय युगादियोगिने युगादिराजाय युगादिशिल्पिने । अपार संसारपयोधिसेतवे नमो नमस्ते जिन ! मुक्ति हेतवे ॥१॥ अलोकमाक्रामति यः सलीलया विशीर्णसीमार्गलमेकझम्पया । स एव ते वृत्तविशेषवर्णनाविधानसंरम्भपरः परं नरः ॥२॥ बलिं व्रजामः कतिशः स्वयं वयं सुमेधसस्तस्य महेश ! वेधसः । भवद्गुणग्रामसमृद्धिशंसिनी चकार वाणों विदुषां मुखेषु यः ॥३॥ अजानतां भेदमुषर्बुधांभसोः स्वयं स येषामभवद् भवान् गुरुः । अशेषसम्पत्तिविलाससम्पदा त्रिसन्ध्यमेषामहमानतनिधा ॥४॥ इमामशेषां प्रविभज्य काश्यपी यथायथं पुत्रशताय कल्पयन् । विधातुकामो विषयोपसंहृति व्यधत्त भूम्ना विषयान् कथं भवान्।।५।। बभूव नैकोऽपि समुद्रमाश्रयन्नमुं प्रचेताच्युतपाशवैशसः । भवन्तमाराध्य समुद्रशेखरं पुनर्विपाशाः कति न प्रचेतसः ॥६॥ नमोऽस्तु तस्मै भुवनोपकारिणे मनः प्रयत्नाय यथाप्रवृत्तये । सदाऽप्य नासादिततत्त्वविप्रुषो यतस्तबोत्कं स्पृहयन्ति जन्तवः ।।७।। तपोभिरुप्रै करणोपरोधनैरकृत्रिमैरादधतस्तव स्थितिम् । विपश्चितः के न भवन्ति हेतुना सचेतसोऽपि प्रविलीनचेतसः ॥८॥ तमः प्रणष्टामलदृष्टिवर्त्मनि प्रबद्धभिधे(?) प्रभवद्भिः कर्मणि । खेरिवोन्मीलित भाववैभवस्तवावतारं जिन ! भारतेऽभवत् । तवांघ्रिसेवारसिकैः कुटुम्बितामिह प्रपन्नैरवनौ सुरासुरैः ॥९।। कृताश्विरं यामिकमात्रदेहिनो(त)
रसातल स्वर्गनिवासिनो ग्रहाः ॥१०॥
For Private And Personal Use Only