SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्तवनानि www.kobatirth.org सौभाग्यैकनिधिर्जरा पधिलुलन्नोलालिमालोदधिदरिद्रयप्रस्यः प्रभारुणनख प्रेङ्खत्प्रवालाल्यः । निर्वाणैकफलः कराङ्गुलिदल छायाश्रिया मांसल, कल्पवृषभः करोतु स शुभश्रेणीं सुवर्णप्रभः ||१०|| उद्बद्धयानदवानलोच्छलदुरुपज्वालावलीप्रज्वलत् Acharya Shri Kailassagarsuri Gyanmandir दुर्वारस्मररागरोग विषयाऽहङ्कारकान्तारतः । धूमश्रेणिरुदुल्लास किमसौ यन्मौलिदेशे जटा - व्याजेन त्रिजगत्प्रभुः स जयतात् श्रीआदितीर्थङ्करः ॥ ११ ॥ यस्मिन् श्रीसदने विभावि भुजयोर्युग्मं बृहत्तोरणं, स्तम्भद्वन्द्वनिभं सपूर्णकलशं पीनांसयो दम्भतः । खेलत्के किलं तदूर्ध्वमतुलं रेजे जटामण्डलं, देवः सेवकवत्सलः स जयताच्छ्रीमारुदेवश्चिरम् ॥ १२ ॥ धर्मद्रोहणलम्पटं जितवतोर्माहिं जगत्कण्टकं स्वामभ्यर्णमवाप्तयोः सबलयोः सुध्यानयोर्वीरयोः । मुक्तेः खङ्गलते इव प्रभवतुर्यत्के जटासन्तती, स श्री आदिजिनस्तनोतु विजयं स्वभूभवो नायकः ||१३|| सोल्लासं परिरब्धयोः सुचरणज्ञानश्रियोः सन्ततं, दिव्यन्नीलमणी घृणी विलुलिते.. .. वेणीदृशोः । यस्यांसस्थलयोर्विलोलनलिनी नीलीदलश्यामले, भ्रातः कुन्तलमालिके स जयतु श्रीनाभिजन्मा जिनः ॥ १४ ॥ नाभेः सम्भवमाप पापशमनः स्रष्टा च वेदस्थितेः, संप्राप्तः परमेष्टिनां वश्चतुर्वर्णव्यवस्थाकरः । यो बह्मा जनकश्चतुमुर्खधरः स बह्मरूपः सतां, लोलन्नी रजटावलिः कलिमलं भिन्युगादीश्वरः ||१५| For Private And Personal Use Only १०९.
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy