________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
१
.
५
विश्वं स्वसौरभ्यभरेण भावय-न्ननिन्द्यतानासुमनोमनोहरः । वदन्महानन्दपदं सदोदितः स्रजेव भावी शिवदो यदङ्गजः ।।११॥ इतीव सद्वाच्यविवेचनाय यद् गर्भावतारेऽवततार किं स्वयम् । स्वप्ने सविश्या स्रगियां श्रिता गुणैः सार्वः स वः सर्वविभूतिभूतये ।।१२।। दाम । जगत् स्वगोभिर्गुरुतां नयन्नयां कलालयस्तापतमः स्मयक्षयः । सुदक्षजातिप्रियतामृतप्रसूर्मत्तोऽप्यनन्तैर्भविताऽधिको गुणैः ॥१३।। तवाङ्गजोऽम्बेति शशंस शीतगुर्मातुर्यदुत्पत्तिमहे महायतिम् । स्वप्ने किमास्योदयकैतवादिवाऽवताद्भवाद्वः स जिनो भवातिगः ॥१४॥ शशी ।। भास्वत्स्वरूपप्रकृतिस्तमोहता-हतं शुचित्वं कमलोदयां तथा । चिन्वन्नृणां गोरचनाश्चितो गुणै-रीषत्तुलां येन सहाहमादधौ ।।१५।। सर्वात्मनाऽनन्तगुणेन नेति किं ब्यजिज्ञपत् स्वप्नदशास्वहर्पतिः । मातुः स्वरूपस्य निदर्शनोपधेरपाधिराधिं द्यतु वः स सार्वराद
।।१६।। दिनकरः ।। सम्पत्पदं दिव्यमहं यथा तथा सुधर्महर्म्यस्थपथप्रपञ्चनैः । उच्चाश्रयस्थायितयोत्तमात्मनां तवाम्ब ! सूनुर्भवितेत्ययं ध्वजः ॥१७||
स्वप्नप्रकाशे निजरूपभावनव्याजादिवाऽसूचयदद्भुतोदयम् । यस्यावतारे भुवनोपकारकम् सुकारकः सोऽस्तु जिनः क्रियोदये ॥१८॥ ध्वजः ।। सुवर्णवर्ण्यः कमलामलालयः पूर्णामृतात्मा सुमनोमनोहरः । दृष्टोऽपि शिष्टोदयतामितोऽम्ब ! ते सुतोऽधिकोऽनन्तगुणैर्मदात्मतः ॥१९।। भावीत्यहो पूर्णनिपोऽवदद्यदैश्वर्य प्रसूस्वप्नदशास्वयं स्वयम् । तत्साम्प्रतं यद्गुरुताऽखिलोच्चसत्,
पदप्रदा सोऽभयदः श्रियेऽस्तु वः ॥२०।। पूर्णकुम्भः ।।
For Private And Personal Use Only