________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सारस्यशस्यं कमलामलालयं मरीचिरुच्यालिकताकलोज्ज्वलम् । तापापहं पुण्यपदं जडात्मकं यथा भवेयं न भवत्समं मनाक् ॥२१॥ तथा विधेहीश ! ममेति गर्भगं यं विश्वपं पद्मसरः किमु स्वयम् । स्वप्नोपधेर्विज्ञपयत्ययं चिदामन्दप्रतिष्ठास्थितिदोऽस्तु सर्ववित् ।।२२।। पद्मसरः॥ पृथुप्रथाथैः प्रथितस्तु संवरां लावण्यलीला सकलक्षमावधिम् । सन्तः कुतस्त्वामिति मत्समं वदन्त्यनन्तमाधुर्यरसोज्ज्वलोऽसि यत् ।।२३॥ . अहं तु नास्मीश ! तथेति यं विभुं वक्तं मुदाब्धिः किमियाय सन्निधौ । प्रसूद्भवत्स्वप्नमिषादिवास्तु सः सार्वः शिवास्वादपदोदयप्रदः ॥२४॥ सागरः ॥ स्वाम्येष सेवास्पदमात्मनां सतामेतद्भवे भाव्यमृते पदेऽनुगः । तत्राथः यामीनमिमं श्रये पुन,-भवं पुनर्हक्पथदुर्लभम्मुवि ॥२५॥ चित्ते विचिन्त्येत्युचितं दिवीव किं ततोऽत्र सेवाविधये समागमत् । दम्भाविभोः स्वप्नमयान्मरुद्गृहं भूयादसौ वोऽभयदो विभूतये ॥२६।। विमानम् ।। जद्गुणग्रामगुरुर्जगजनानन्दप्रदः पादपदं सदोदितः । मुखं सुखानां त्वमितोदयौः समान, मनागिहाऽनन्तगुणाधिकोऽसि मत् ॥२७॥ ममापि तत्तादृशवैभवं विभो ! देहीति यं स्वप्नदशासु याचितुम् । रत्नोत्करो मातृमुखेऽविशन्नु किं स बाधिदः स्तात्सुधियां सुबोधये
॥२८॥ रत्नाकरः ॥ सन्मां बृहद्भानुमहारवं वदा वदन्ति तत्त्वं परमार्थतादृशः । विधेहि मे तत्त्वभवावतारतः पुण्य पदं भानुरिहासि यबृहत् ॥२९॥ इतीव विज्ञप्तिपरः पुरः स्फुरन् यस्य प्रसूवक्त्रवरेऽगमच्छिखी । विधाय किं स्वप्नमिषं सुखाय स प्रणेमुषां श्रीवृषप्रमुर्भुव ।।३०॥ शिखी ॥ चतुर्दशस्वप्नमवेक्ष्यमेति तद्, गुणोचितं तं नु जनन्यजीजनत् । सुतं गुणानन्त्यपदं तु साम्प्रतं तद्येन लोकोत्तररूपभृद्रिभुः ॥३१॥
For Private And Personal Use Only