________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवनानि
त्वत्माहात्म्येन मुक्तासहनमतिमता नित्यवैरा अपीयु
र्या हृष्टाः पयुपास्यैवृषभजिन ! भवद्देशनाभूमिमीडे । तां दुष्प्रापां परेषां निखिलसुखखनि शिष्टमेतद्यथाथै :
सुच्यने कूपपटकं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥२०॥ इत्थं चन्द्र गणेन्द्रहर्षवनयश्रीसरिराज्येश्वरः,
स्तोत्रं मन्त्रपवित्रगोत्रमहिमाम्नायार्णवः प्रापितः । श्रीशत्रुञ्जयमौलिमण्डनमणेरीणप्रवीणोदयं,
देहि त्वं गुरुधर्महंससहसकीडाब्ज : मे श्रीपदम् ।।२१।।
श्री ऋपजिनेन्द्र स्तोत्रम् [ शार्दूलविक्रीडितम् ]
यस्या सस्थलशालिनः किल तनोः श्रेयोलतानंतवो
मूर्ताः किं त्रिजगत्परोपकृनये तापापनोदाय वा । तत्तत्सौख्यफलोद्भवाय भुवि वा प्राविर्बभूवुर्जटा
कूटेनेव पटूद्भटं समयिशं दद्यायुगादिर्जिनः ॥१॥ यस्योच्चांसतटे जटाकपटतो नीलोत्पलश्यामला
___ धूमाली प्रसरीसरोति सुतपोध्यानाग्निभिोलिते । किं कर्मेन्धनसञ्चये सति महासद्भाववातोद्धतैः ___स श्रीमान् वृषभप्रभुर्भवतु मे सद्भूतसद्भूतये ॥२॥
शस्योत्पत्तिपराः सुसंवरधरास्तापापहाः शङ्करा
युष्मद्वद्वयमप्यहो त्वथ चलत्वं नः पुनर्जन्मनाम् । दूरात्त्याजयतेति विज्ञपयतीव द्वादशाभ्रावली
यं नाथं सुजयंगभृत् स शिवदः स्तादादिदेवः सताम् ॥३॥
For Private And Personal Use Only