________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
युगा दिवन्दना
यच्छीर्णोष्णीषपीठासनवसनरता भङ्गसौभाग्यभाग्य
श्रीकान्तामौलिवेल्लद्विरलितकबरीद्वैतमदूवैतशोभम् । भेजे पार्श्वद्वयेऽपि प्रसभमुभकलालम्बिलम्बजटायाः
कूटेनेवादिदेवः स विभुरभविता भावितानां तनोतु ॥४॥ याता यास्यं ते यान्त्यक्षयसुखमिह ये तेऽर्हदास्याब्जजोद्य,
द्वाणी किञ्जल्ककल्कास्वदनकृतिरतानान्यजैरेणुभावैः । तत्त्वं ज्ञात्वेति मुक्त्वा तदथ मधुकरश्रेण्यदोऽर्थ जटाङ्गं
__ धृत्वोपास्ते किमेतां कलयतु सकला शङकलां श्रीयुगादिः ।।५।। दिव्यश्रीद्वादशाङ्गीपुरिसुगुणमणीश्रेण्यरीणानणीयः ।
सौधोदात्तैकस तरविरतियुगद्वारकोद्घाटशिष्टे । पार्श्वद्वैते जटायाः कपटत इव किं कुञ्चिके यस्य भात,
स्तन्यान्न्यायाध्वगानामसमसमशिवश्रीपदब्रह्म नोऽर्हन् ।।६।। तीक्ष्णोष्णश्च खरः पिता मदनुजः कीनाशनाम्ना द्विधा,
कृष्णाहं प्लवनागताघ्र(?)निघसैस्तद्रव्यभावेन माम् । विश्वस्तुत्य पवित्रयात्मवदिति स्वार्थाप्तये यं श्रयेत्
कालिन्दीवजटाङ्गसंधृतिरता सोऽर्हन् श्रिये स्तात्सताम् ॥७॥ देवाभासतयावयोरनुचितं स्प्रष्टुं हरादीन् सुरान्
नष्टाऽष्टादशदोषतादिभगवद्भावार्थतेऽप्टैर्गुणैः । एषोऽर्हन्नुचितस्तु नाविति हृदास्थायां ससंसज्जटा
कूटात्किवरणस्रजे जिनशिवश्रीकान्तयोः स्वप्रभौ ॥८॥ भाग्याभोगतया स्वयं सहवृते ज्ञानादिकश्रीत्रिके
न्यक्षक्षायिकभावगे क्षपककश्रेणीमणीमण्डपे । तन्वत्यद्भुतयत्पुरे विधिरिवापूर्वप्रवेशं जटा
व्याजात्तोरणवल्लरों व्यरचयत्स श्रीजिनः पातु नः ।।९।।
For Private And Personal Use Only