________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीमद् बुद्धिसागरकृत श्रीयोगदीपक मूलग्रन्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
"
नमः श्रीवर्द्धमानाय, सर्वदोषप्रणाशिने । केवलज्ञानसूर्याय, लोकपूज्याय तायिने ॥ १ ॥ सद्गुरुं पूज्यमानम्य, स्वाभाविकसुखोदधिम् । सर्वकर्मनिवृत्त्यर्थं करोमि योगदीपकम् ॥ २ ॥ कोऽहमात्मा चिदालक्ष्यो, भिन्नः पुद्गलभावतः । रत्नत्रयीस्वरूपेण, सत्तातोऽस्मि स्वभावतः ॥ ३ ॥ अस्म्यहं प्रत्ययज्ञाता, जीवो भिन्नोऽस्ति देहतः । इन्द्रियाण्यपि नैवात्मा तथैवं मनसोऽपि वै ॥ ४ ॥ नास्ति वाणी तथैवात्मा, रक्तं नास्ति जडत्वतः । प्रत्यक्षादिप्रमाणेन, सिद्ध आत्मा हि शाश्वतः ॥ ५ ॥ आत्माऽसङ्खयप्रदेशैश्च, देहव्यापी चतुर्गतौ । केवलज्ञानभावेन, सर्वव्यापक इष्यते ॥ ६ ॥ व्याप्यव्यापकभावत्वं, सापेक्षातः स्फुटं मतम् । नित्यानित्यप्रवादानां, समासो जैनदर्शने ॥ ७ ॥ एकानेको नयेनात्मा, वाच्यावाच्यस्तथैवच । कर्त्ताऽकर्त्ता च हर्त्ता वै, सोऽपेक्षातः प्रभासते ॥ ८ ॥ सर्वस्मिन् सर्वतोभिन्नो, ज्ञानेन व्यक्तितः स्वयम् । नयैज्ञतं स्वरूपं मे, तथैव सप्तभङ्गतः ॥ ९ ॥ कुतः प्रियपदार्थेषु, ममत्वं क्रियते मया । बाह्यभावात् प्रभिन्नोऽस्मि, तत्र रागो न युज्यते ॥ १० ॥ कुतोऽप्रियपदार्थेषु, द्वेषत्वं क्रियते मया । प्रियाप्रियत्वं मनसः कल्पितं नास्ति ब्रह्मणः ॥ ११ ॥
For Private And Personal Use Only