________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 33५ )
तदीय पट्टाम्बरभानुमाली, पर:शतग्रन्थविधानदक्षः । योगिप्रधानः श्रुतधर्मनिष्ठः कृतावधानः शुभतत्त्वराशौ ॥ ६ ॥ विशुद्धभावोऽजनि वुद्धिसागरः, मूरीश्वरो बुद्धिनिधानमुख्यः। पीयूपतुल्यानि वचांसि यस्य, निपीय सन्तोषमियाय भव्यः ॥७॥ तदीयपट्टे जितसागरोऽभूत, मूरीश्वरो स्वीयगुरुषभावात् । ग्रन्थाननेकान् व्यलिखद् यथामति,यच्चारुशीलः समतानिधानः।। तत्पट्टलक्ष्मी रुचिगं द्वितीयो बुद्धब्धिसूरीन्द्रपदाब्जसेवी ।। दधाति शिष्य स्वयमृद्धिसागरः मीश्वरः शास्त्रविदांवरेण्यः॥९॥ पानञ्जलाख्ययोगस्य, सारग्राहि विवेचनम् । व्यलेखि भव्यलोकाना-मुपकाराय सूरिणा ॥१०॥ तेन ताचिकभावेन, योगानुभवपूर्वकः ।। सुखसागरनामाऽयं ग्रन्थोयं यातु विस्तृतिम् ॥११॥
मङ्गलं भगवान् वीरो, मङ्गलं गणनायकाः । मङ्गल धर्मशास्त्राणि, मङ्गलं सूरिवाचकाः।
ॐ शान्तिः ३
For Private And Personal Use Only